पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड;] ब्रह्मग्रन्थिसमायुक्त पवित्रे मध्यपर्वणि । पाणिभ्यां सर्वदा धार्ये कर्मकाले विशेषतः । पर्वभेदे वर्णभेदे च विशेषमाह अत्रिः - अग्रपर्वस्थितो दर्भः तपोवृद्धिकरोऽपि सः । मध्ये चैव प्रजाकामो मूले सर्वार्थसाधकः । अंगुलीमूलदेशे तु पवित्रं धारयेत् द्वजः । राज्ञां द्विपर्वके चैव विशामग्रेकरस्य तु । स्मृत्यन्तरे- * पित्र्य मूलेन मध्येन स्रानं दानं प्रयन्नतः । दैवं कर्म कुशाग्रेण कर्तव्यं भूतिमिच्छता ॥ यथाक्रमं मूलमध्याग्रसहितैरित्यर्थः । स्मृतिसारे- 'कुशाः काशा यवा दूर्वा गोधूमाश्चार्थकुञ्चराः । उशीरा ब्रीहयो मौजा दशदर्भाश्च बल्बजाः । शंख: - 'काशहस्तस्तु नात्रामेत् कदाचिद्विधिशंकया । प्रायश्चितेन युज्येत दूर्वाहतस्तथैव च । प्रायश्चित्तमष्टोत्तरशतगायत्रीजपः । वृढवसिष्ठः– ' काशस्तु रौद्रो विज्ञेयः कौशं ब्राह्म तथा स्मृतम् । आर्षे तु दौर्वमाख्यातं वैश्वामित्रं तु वैष्णवम् ।। संग्रहे अप्रसूताः स्मृताः दर्भाः प्रसूतास्तु कुशास्तथा । समूलाः कुतपाः प्रोक्ताः ि छिन्नाग्रास्तृणसंज्ञिताः । कौशिकः -- * गवां वालपवित्रेण वह्नयपातिं करोति यः । पञ्चामयो हुतास्तेन यावज्जीवं न संशयः ॥' इति ब्रह्मा पुनात्वित्यङ्ल्यां निक्षिप्य । अङ्गुल्यामिति सामान्योनोक्तत्वत् अनामिकाव्यतिरिक्ताङ्गुलीनां दोषाभावात् अनामिकाव्यतिरिक्ताङ्गुलेिष्वपि किं न स्यादिति चेन्न ।