पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् आतपेन सह स्नानं दिव्यमेव तदुच्यते । स्नानमब्दैवतैलिंलैर्जले मजनगाहनैः । तर्पणं पितृदेवानां स्नानं वारुणमुच्यते । यौगिकं स्नानमास्यातं योगो वै विष्णुचिन्तनम् ॥ आत्मतीर्थप्रशंसायां व्यासेन परिकीर्तितम् । शक्तश्रेद्धारुणस्नानमप्रायत्ये तदेव हि । हृििस्थतं सर्वभूतानां रविमण्डलसंस्थितम् । नीलजीमूतसङ्काशं वासुदेवं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं वनमालिनम् । चिन्तयेत् ब्रह्मरन्ध्रण प्रविशन्तं स्वमूर्धनि ।। तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि । तया प्रक्षालितं सर्वं स्वदेहं परिचिन्तयेत् ।। इदं स्नानं परं मान्तात् सहस्रादधिकं मतम् । एवं स्रात्वा विशेषेण सर्वपापैः प्रमुच्यते । कूर्मे:- 'अप्रायत्ये समुत्पन्ने स्रानमेव समाचरेत् । ब्राह्मादीन्यन्यथाऽशक्तौ स्नानान्याहुर्मनीषिण । वारुणस्नानासम्भवे कूपादुद्धृत्य सेचनमभिषेकः । मनुः- 'कूपेघूद्धततोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृतोयेन अथवा ()भुव्यसम्भवे । अखण्डादश: - 'शूर्पवातं नखाग्राम्बु स्नानवस्त्रं घटोदकम् । मार्जनीरेणुकेशाभ्बु हन्ति पुण्यं पुरातनम् । दिव्यादीनां लक्षणमुत्तरत्र विस्तरेण वक्ष्यते । गुर्वनुज्ञा मातापितृभ्या माचार्येण वा त्वया स्नानं कर्तव्यमिति वाक्येनानुज्ञा । ततश्च तदेव स्नानम् । मातृ देवो भव, पितृदेवो भवेति श्रुतेः ।