पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न ऋधिकल्पस्य ऋषेश्च परमात्मोपासनरूपसंस्कारविशेषाभावात तपो विद्या च विप्रस्य निश्श्रेयसकरावुभौ । तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते' ।। इति मनुस्मरणात् * परात्परतरं याति नारायणपरायणः । इति नारायणपरायणस्य अपवर्गान्तफलश्रवणाच नारायणपरायण इत्युक्तम् । ननु बाल्यादारभ्य नारायणपरायणश्चेत् किमर्थमेते संस्कर। इति चेत् सत्यम् । 'तमेन वेदानुवचनेन ब्राह्मणा विविदषन्ति यज्ञेन दानेन तपसाऽनाशकेन ' इति, ‘तस्माष्ट्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुन'रिति श्रुतेः, 'एतमेव विदित्वा मुनिर्भवती 'ति (बोधायनः।) जपहोमेष्टियज्ञाचैः शोधयित्वा स्वविग्रहम् । साधयेत्सर्वकर्माणि नान्यथा सिद्धिमश्नुते ।। इति 'व्रतैर्जपैश्च होमैश्च वेदाध्ययनकर्मणा । अन्यैश्च विविधै. चिरं सम्यगनुष्ठितैः । साध्यत भक्तिमहिमा सर्वात्मनि हरौ नृणाम् । इति स्मरणाञ्च । उपासननिप्पत्त्यर्थमुपासनांगत्वेन तेषां कर्तव्यत्वावगमात् शुकवत सर्वे (आज.मतः) ब्रह्मज्ञानाभावाच निषेकादिसंस्काराः कर्तव्या. । ननु सूखे तावत् 'निषेकादिसंस्करान् व्याख्यास्यामः इत्युक्तम् । निषेकः संस्कारस्तु मध्ये (विवाहप्रकरणे) पठित इति कथं निषेकादित्वमुच्यत इति चेत् उच्यते । निषेकादिसंस्कारान् व्याख्यास्याम इत्युक्तः पुनरपि ऋतुसङ्गमनेत्यादिना प्रधानभूनसङ्गमनस्यादावेव प्रतिपादनात् अत एव निषेकादिश्मशानान्ता इति मनूक्त प्रकारेण निषेकाद्यपरसंस्कारान्तं सङ्कपेणोक्तत्वात् इतरसूत्रेष्वनुक्तत्वात् 'वेस्वानसेन सूत्रेण निषेकदिक्रियाऽन्वितः' इति भृगुणा प्रतिपादितनिषेकद्वित्वमुपपद्यत एव । निषेकसंस्कारमादितस्सङ्कहेणोक्ता अनन्तरं िवस्तरेण प्रतिपादितवतः िद्वतीयखण्डादारभ्य आचारादिपूर्वकत्वेनोक्तवतश्च सूत्रकारस्यायमभिप्रायः । निषेकः प्रथमः संस्करः । स च पाणिग्रहणभावे न सम्भवतीति पाणिग्रहणमुक्तम् ।