पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वशविधहेतुनिरूपणम् वानराणां तथा मेषः फणीनां गरुडः स्मृतः । मूषकानान्तु मार्जारो मृगाणां श्वा प्रकीर्तितः । वायसानां दिवाभीतः सिंहानां शरभस्तथा । ततो निर्मापयिष्यामः शरभ भयशान्तये । शरभोऽधष्ठितोऽस्माभिः नृसिंहं शमयिष्यति । इत्येवमुक्ता भगवान् ससर्ज शरभं तथा । यस्य सन्दर्शनादेव त्रस्तमासीज्जगतूयम् । ततस्तस्य भवानी: तुण्डस्थानमरोचत । पृष्ठभागे चतुर्वतं तस्य रुद्र। न्यवेशयत् । से मसूर्यो नयनयो: मारुतं पक्षयेद्वयोः । पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयन् । एवं निर्माय शरभं भवः प्रमथनायकः । जगजे नरसिंह तं समुद्दिश्य भयानकम् ' ॥ इति शरभनिर्माणादिकं प्रतिपाद्य ततःक्षणेन शरभो नादपूरितदिद्युखः। अभ्याशमगमद्विष्णोः निदन् भैरवं स्वनम्। तमभ्याशगतं दृष्टा नृसिंहः शरभं रुषा । जघान निशितैरुप्रै: नखैर्नस्वरायुधः ।। निहते शरभे तस्मिन रौद्रे मधुविधानिना। तुष्टबुः पुण्डरीकाक्ष देवा देवर्षयस्तथा । इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम् । गारुडे अष्टनवतितमाध्याये : हन्तुमभ्यागतं गैन्द्रं शरभं नरकेसरी । नखैर्विदारयामास हिरण्यकशिपे यथा ॥ ११५