पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामण इति भगवतो रुद्रोपासनमुच्यते इति चेत्-सत्यम् । रुद्रस्य तदपि भगवर प्रसादलब्धम् । एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते । यथा अगस्त्यं प्रति रुद्रः * ब्रह्मणाऽहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः । अविज्ञाताऽसमर्थोऽहं निमग्नस्सलिले द्वज ? ॥ इत्यारभ्य जलमध्ये कालमेघसङ्काशः अतिशोमनः पुण्डरीकाक्षः कश्चित् पुरुषो रुद्रेण दृष्टः कस्त्वमिित रुद्रेण पृष्टस्य तस्य प्रतिवचनम् 'अहं नारायणो देवो जलशायी सनातनः । दिव्यं चक्षुर्भवतु ते तेन भां पश्य यतः ॥ इति प्रतिपाद्य एवमुक्तस्तदा तेन यावद्धश्यामहं तनुम् । तावदङ्गुष्ठमात्रन्तु ज्वलद्भास्करतेजसम् ॥ तमेवाहं प्रपश्यामि तस्य नामौ तु पङ्कजम् । ब्रह्माणं तत्र पश्यामि ह्यात्मानञ्च तदङ्कतः ॥ एवं दृष्टा महात्मानं ततो हर्षमुपागतः । । तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ' । इत्युपक्रम्य महत्स्तोत्रमुक्त अन्ते रुद्रण भगवन्त प्रत्यभीष्टनिवेदनं प्रति पादितम् । यथा - 'इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश्च । सृष्टि सृजस्वेति तुचोदितस्य सर्वज्ञतांदेहि नमोऽस्तु विष्णो॥ इति। एवं स्तोत्रे परिसमापिते

  • वरं वरव भद्रं ते देवदेव उमापते ! !

इति भगवता नियुक्तः रुद्र - ब्रह्मणा चाहमुक्तस्तु प्रजास्सृज इति प्रभो । तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन ॥ इति प्रार्थयामास।