वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ जायते । नारायणादिन्द्रो जायते । नारायणाद्द्वादशादित्याः रुद्रावसवस्सर्वाणि च भूतानि । नारायणादेव समुत्पद्यन्ते । नारायणात्प्रलीयन्ते । इत्याद्या
- नारायणपरं ब्र ' ह्मत्यारभ्य । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित
इत्याद्याः, ' तमेव विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ऊामृतत्वस्येशान:' इत्याद्याः, न तस्य कार्यं करणञ्च विद्यते 'न तत्समश्चाभ्यधिकश्च दृश्यते 'परास्य शक्तिर्विविधैब श्रयते स्वाभाविकी ज्ञानबल क्रिया च ' इत्याद्याः, 'एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायण इत्याद्याः, 'एको ह वै नारायण आसीत् । इत्याद्या , 'यो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यसिंविशन्ति । तद्विजिज्ञासस्व । तद्र 'ति 'पनि विश्वन्यात्मेश्वर' मियाद्याश्च श्रुतयः प्रमाणम् । ननु - श्धताश्वतरे – 'एको हि रुद्रो न द्वितीयाय तस्थे + य इमान् लोकानीशत ईशनीभिः –विश्वाधिको रुद्रो महर्षिः – हिरण्यगर्भ जनयामास पूर्व म नो बुद्यया शुभय संयुनक्त - * उमामहायं परमं महेश्वरं त्रियम्बकं नीलकण्ठं प्रशान्तम् । ज्ञान्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यादिभिः रुद्रस्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत् -उच्यते । आपाततो रुद्रपरत्वेनावगम्यमानेऽपि विचार्यमाणे नारायणपरत्वमेव । एक एव रुद्र इत्यनु पपन्नम्।'महस्राणि सहस्रशो ये रुद्रा' इत्यादिश्रुतिभिः 'एकादशरुद्रा'इत्यादिभिश्ध अनेकरुद्राणां विद्यमानत्वावगमात क्रूरस्य रुद्रशब्दवाच्यस्य 'बृहत्त्वात् बृहणत्वाच तद्रह्मति प्रकीर्तितमिति ब्रह्मशब्दवाच्यत्वायम्भवात्, तेषामयुराणां तिस्रः पुर आस' नित्यारभ्य ‘इदमसिष्यतीति रुद्रमब्रुवन् रुद्रो वै क्रूरस्सोऽस्यत्विति, सोऽब्रवीद्वरं वृणे अहमेव पशूनामधिपतिरसाविति तस्माद्रुद्रः पशूनामधिपतिरिति 'रुद्रो वा अकामयत पशुमन् स्यामिति-भाता रुद्राणां दुहिता वसूना'मिति । पशुपतित्वया चकत्वात्। 'नैव देवो न मयैः । न राजा वरुणो विभुः । नार्नेिन्द्रो न पवमानः । मातृकत्व न विद्यते -श्यारभ्य'एतद्रुद्रस्य धनुः । रुद्रस्यत्वेव धनुरानिः। शिर उत्पिपेष । स प्रवग्यंऽभवत् । तस्माद्यस्सप्रवर्येण यज्ञेन यजते । रुद्रस्य स शिरः दधाति । नैनं रुद्र आरुको भवति । इत्युक्तत्वाच रुद्रस्य ब्रह्मशब्दवाच्यत्वं न