पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैचानसगृह्यसूत्र तात्पर्यचिन्तामणो इति च स्मरणात्। अतः शास्रोक्तमार्गेण भगवद्यजनविधौ प्रवृत्तानां तत्तत्कर्मसु दक्षिणाप्रतिग्रहे कृतेऽपि न दोषः । गृहानाव्यतिरेकेणालयार्चना भारतादिषु प्रतिपादिता दृश्यते । यथा महाभारते आश्वमेधिके-' कथं त्वमर्चनीयोऽसी' त्यादि ।

'यस्तु देवगृहस्यार्थे प्राकारं परिकल्पयेत् । स तु स्वर्ग समासाद्य विमानाधिपतिर्भवेत् । यस्तु देवालयस्याग्रे शिलादारुभिरेव वा । करोति तोरणं रम्यं स तु स्वर्गाधिपो भवेत् ॥ यस्तु देवालयं विष्णोर्दारुशैलमृदा तथा । इष्टकाकल्पितं वापि कुर्यात्तस्य फलं बहु ॥ अहन्यहन्यश्वमेधसहस्राणि करोति यः । प्रामेोति मण्डपं विष्णोः यः कारयति मानवः । केशवस्य स तलोकमक्षय्यं प्रतिपद्यते । प्रतिमाथै महाविष्णोस्साधयेदुत्तमां शिलाम् । षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते ।।' इति । एतेषां च प्राकारतोरणमण्डपविग्रहशिलादीनां गृहदेक्तास्क्संभवः श्रीवैखानससंहितासु प्रतिपादितः । प्रसङ्गादकमहिमादीह कथ्यते । वृहशारदीये- 'स कदाचिन्महापापो जन्तूनामन्तकोपमः । इत्यारभ्य *तस्वोपवनमध्यस्वं रम्यं केशक्म दरम् । छादितं हेमकवचैः दृष्ट व्याधो गुदा ययौ ॥ हराम्यत्र सुवर्णानि बहूनीति स निक्तिः । जगाम क्णुिभक्नं कीनाशौर्यलोलुपः ॥