पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


इन्द्रचापधरः खड्गधरश्चाक्षयसायकः ।
खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ ४७

ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः ।
जटावान् पर्णशालास्यो मारीचबलमर्दकः ॥ ४८

पक्षिराट्कृतसंवादो रवितेजी महाबल: ।
शबयनीतफलमुग्घनूमत्परितोषितः ॥ ४९

सुग्रीवाभयदी दैत्यकायक्षेपणभासुरः ।
सप्सतालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ ५०

वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः ।
उदन्वतीरगः शरो विभीषणवरप्रदः ॥ ५१

सेतुकृहैत्यहा प्रातलङ्गी।sलड़ारवान स्वयम् ।
अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥ ५२

दशकण्ठशिरोध्वंसी जाम्बवत्ममुखावृत: ।
जानकोशः सुराध्यक्षः साकेतेशः पुरातनः ॥ ५३

पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः ।
लक्ष्मीसर:केळिलोलो लक्ष्मीशो लोकप्रक्षकः ॥ ५४

देवकीगभैसंभूतो यशोदेक्षणलालितः ।
वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥ ५५