पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/13

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेशस्तोत्रम्
  • लवेणुरवावशेगोपवधू

शतकोटिवृतात्सरकोटसमात् ।
प्रतिवल्लविकापिमतान्सुखदात्
वसुदेवसुतान्न परं कलये ॥५॥

अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो।
वरदी भव देव दयाजलधे ॥६॥

अवनीतनया कमनीयकरें
रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहरं
महनीयमहं रघुराममये ॥७॥

सुमुख सुहृद सुलभ सुखद
स्वनुजं च सुकायममोघशरम ।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कश्चन जातु भजे ॥८॥

विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेर्श सरामि सरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रिर्य वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥