पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु


श्री श्रीनिवासपरब्रह्मणे नमः


श्रीमते विष्वक्सेनाय नमः



श्रीवेङ्कटाचलमाहात्म्यम् ।



(श्रीभविष्योत्तरपुराणान्तर्गतम् )


*****



श्रियःकान्ताय कल्याणनिधने निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियऽध्यासितवक्षसम् ।
श्रीतचेतनमन्दरं श्रीनिवासमहं भजे ॥

हरि ॐ



अथ प्रथमोऽध्यायः


***



जनकनृपतुभृतशोक तिरेकप्रकारः

‘सुन ! सूत! महाभाग! सर्वशास्त्रविशारद !
त्वतोऽहं श्रोतुमिच्छामि माहात्म्यं पुण्यवर्धनम् ॥ १

कथितं तंगहाल्यं त्वया हस्तिगिरीशितुः ।
जगन्धस्य वै विष्णोः माहात्म्यमतुलं मुने ।
इदानीं श्रेतुमिच्छामि माहाख्यं वेङ्कटेशितुः ॥ २

श्रीसूतः - ‘साधु पृष्टं त्वया ब्रह्मन् ! चरितं वेङ्कटेशितुः ।
यथाश्रुतं मया पूर्वं व्यासादमिततेजसः ॥ २