पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
श्रीस्कान्दपुराणे (तृतीयभागे) प्रथमोऽध्यायः


नेऽस्य भूभृनस्तुक्रे स्थितं लोकैकनायकम् ।
अपूजयहरिं भक्त्या प्रसिद्धं शुभसिद्धये ॥ ५२

अरु वेङ्कटमहादिकृतः स ददर्श सिद्धमुनिसङ्घसेविताम् ।
कलशोद्भवेन मुनिना समाहतां तटिनीं सुवर्णमुखरीसमाहयाम्॥५३

इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटचस्मातस्थे (तृतीयभागे)


सुवर्णमुखरीगाहाल्ये अर्जुनतीर्थयात्रागमनवर्णनं नाम


प्रथमोऽध्यायः ।


---

0

अथ द्वितीयोऽध्यायः


-: * :-



सुवर्णमुखर्गवर्णनम्



तथा सर्वाणि तीर्थानि समालोक्यागतस्य चे ।
मुद प्रगुणयांची सा पथस्य महापगा ॥ १

यस्यास्तटनिकुञ्जेषु मोदन्ते वनितासखः।
सिद्धाः संसेविता बलैः शीकरासारशीतलैः ॥ २

या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम् ।
आलिङ्गितुं समुतुडैः कल्लोलैरभ्रसङ्गिभिः ॥ ३

धूमैराहुतिसम्भूतैः तरुलाखोपलम्मिभिः ।
वरुध विराजन्ते यतटाश्रमभूमयः ॥ ४

मुनीन्दैः सुधवैश्व स्थापितानि समन्ततः।
यत्तटद्वितये भाति दिव्यलिङ्गानि शूलिनः ॥ ५

यदीयसैकतावासविश्रान्ता मानसं सरः ।
न स्मरन्ति निजावासं भमराल विहगसमः ॥ ६