पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तानुकम्पया भुवमवतीर्णस्य भगवः श्रीनिवमभ्य वैकुण्ठापेक्षयतीव प्रियं श्रीवेङ्कटाचलमिति तस्य क्षेत्रस्य महिमा इयानिनि वर्णयितुं न शक्यते । अमेय विभवस्यानन्तकल्याणगुणस्य परब्रह्मभूतन् श्रोत्रेङ्कटेशम्य, पुरुषकारस्वाभिन्थाः भगवत्याः पङ्कमावत्याश्च कल्याणचरितमस्मिन् वेङ्कटाचलमाहात्म्ये सभ्यगभि वर्णितम् । न केवनं तत् अन्वर्थनामधेयायाः स्वामिपुष्करिण्या’, अन्येषाश्चासंख्यानां तीर्थानाञ्च प्रभावः अस्मिन् क्षेत्रमाहात्म्येऽभिवर्णितः । पुराणवाङ्मये एकादशपुराणेषु तावदिदं श्रीवेङ्कटाचलमाहात्म्यं वहुसंख्याकेषु अध्यायेषु सविस्तरमभिवर्णितम् । 8.1. पुराणवाङ्मयप्रसिद्धिः : चतुर्दशविद्यास्थानेष्वन्यतमं पुराणं इतिहासेन सह वेदोपहणमातनुत इति महाभारत एवमुपदिश्यते-- इतिहासपुराणाभ्यां वेदं समुपबृहयेत् । बिभेत्यल्पश्रतादवेद: माभयं प्रतरिष्यति । ' अथर्ववेदे पुराणवाङ्मयस्य वेदैस्साकं समानं स्थानं अस्तीत्येवं श्रूयते ऋचः सामानि छन्दांसि पुराणं यजुषा सह । उच्छिष्टा जज्ञिरे सर्वे दिवि देवा दिविश्रितः ।।' छान्दोग्योपनिषदि इतिहासपुराणानां पञ्चमवेदत्वं एवं प्रत्यपादि “इतिहासपुराणः पञ्चमो वेदानाम् ' वेदवेदाङ्गपारगेणापि पुराणवाङ्मयमवश्यमध्येयं; नो चेत् तस्य पूर्णता न सिद्धधतीति वायुपुराणसेवं बोधयति यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः । न चेत्पुराणं संविद्यात्रैव स स्याद्विचक्षणः ।।' अतः पुराणवाङ्मयं भारतीयसंस्कृतेः मूलभूतं वर्धतींति सारः । 1. म. भा. आदि. 1.267. 2. अ. सं. 11. 7. 24, 3. छा. उ. W|}. 1.24. 4. वा. पु. 1.2. 180.