पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
514
[बालकाण्डः
परशुरामप्रतिष्टम्भनम्

 आरोप्य स धनू रामः शरं सज्यं चकार ह ।
 जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ ५ ॥

 स रामो धनुरारोप्य-ज्यारोपं कृत्वा, शरं सज्यं–ज्यासहितं चकार । सन्धानं कृतवानिति यावत् ॥ ५ ॥

 ब्राह्मणोऽसीति पूज्यो मे[१] विश्वामित्रकृतेन च ।
 तस्माच्छक्तो न ते राम ! मोक्तुं प्राणहरं शरम् ॥ ६ ॥
 [२]इमां[३] वा त्वद्गतिं राम ! [४]तपोबल[५]समार्जितान् ।
 लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ ७ ॥

 ब्राह्मणोऽसीति । जमदग्निबीजत्वेन ब्राह्मण इति कृत्वा सामान्यतः पूज्योऽसि —वधानर्होऽसि । अपि च विश्वामित्रकृतेन-विश्वामित्रभागिनेयसुतत्वेन च हेतुना पूज्योऽसीति यतः तस्मात् इमां प्रत्यक्षसिद्धां त्वद्गतिं गतिसाधनपादावित्यर्थः । लोकानिति । [६]लोकप्राप्तिमार्गमित्यर्थः । यदिच्छसीति । उभयोर्मध्ये तद्वदेति शेषः ॥ ७ ॥

 न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।
 [७]मोघः पतति वीर्येण बलदर्पविनाशनः ॥ ८ ॥


  1. विश्वामित्रकृतेन–विश्वामित्रकृतेन स्नेहेन; विश्वामित्रभगिन्यां सत्यवत्यां ऋचीकाञ्जातो जमदग्निः, तस्य पुत्रः परशुरामः इति विश्वामित्रसम्बन्धेनेत्यर्थः-गो. विश्वामित्रात्–अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन–जातत्वेन च हेतुना-शि. विश्वामित्रकृते–इत्यस्मिन्नर्थे विभक्तिप्रतिरूपकमव्ययं वेदम्
  2. उत्तरत्र 'यदीमां मद्गतिं
    इत्यत्र संचारस्य स्पष्टं प्रतीत्या अत्रैवं व्याख्यानम् । अत एव गोविन्दराजीये 'पादगतिं' इति पाठ आदृतः । पाद्मेऽपि त्वत्पादकमले इन्मि' इति दृश्यते। शिरोमणिस्तु त्वद्गतिं – त्वत्कर्तृकं कामचारगमनं इति व्याचख्यौ । शिष्टं १४ तमश्लोकटिप्पण्यां द्रष्टव्यम्
  3. पादगतिं -ङ.
  4. 'लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया' इत्यनुपदं सत्वात् अयं पाठो युक्तः
  5. समार्जिताम्- ङ.
  6. परं तु उत्तरत्र २२ तमलोके 'लोकान्' इति पदमन्यथा व्याख्यातम्.
  7. एतदनन्तरं-इति ब्रुवति काकुत्स्थे भार्गवं प्रति रोषिते । शतक्रतुमुखा देवा पुरस्कृत्य शतक्रतुम् ॥ इत्यधिकं-ङ.