पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६० सर्गः]
419
कौशिकस्त्वसृजत् क्रोधात् अन्यं स्वर्गं त्रिशङ्कवे

 परमसंभ्रान्ता इति । [१]ज्येष्ठायाः कनिष्ठायामितिवन्मनोदुःख हेतुत्वेन स्वप्रतिसर्गाभासप्रसङ्गे पर्याकुलचित्ता इत्यर्थः ॥ २४ ॥

 अयं राजा महाभाग ! गुरुशापपरिक्षतः ॥ २५ ॥
 सशरीरो[२]दिवं यातुं नार्हत्येव तपोधन !

 सानुनयमित्यनुनयस्यैव प्रकारः–अयं राजेत्यादि । गुरुशापहतश्चण्डालभूतोऽयं पुण्यैककृत्रैवर्णिकैकलभ्यानाद्यनन्तब्रह्मसृष्टस्वर्गंनार्हति । कर्मणोऽवश्यनाश्यत्वात् पुण्यक्षयेऽवश्यं त्वत्सृष्टिजातं तु नश्यत्येव । अतः क्षात्रस्वभावमास्थाय दुराग्रहं मा कुरु । अतोऽयं दक्षिणामेव दिशमास्थाय अवाक्छिराः-अस्माभिस्सर्वैरेव कृतमवाक्छिरस्त्वममुञ्चन्नेव तिष्ठत्विति न्यायानुनयोपेतमूचुः ॥ २५ ॥

 तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः ॥ २६ ॥
 अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ।

 एवं तेषां तद्वचनं श्रुत्वा सुमहत्-[३]स्वकमहापुरुषार्थ प्रयोजनकं वाक्यं अब्रवीत् ॥ २६ ॥

 सशरीरस्य, भद्रं वः, त्रिशङ्करस्य भूपतेः ॥ २७ ॥
 आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ।

 किमब्रवीदित्यतः-सशरीरस्येत्यादि । 'भद्रं वः' इत्यनेनानुनयः क्रियते ॥ २७॥

 स्वर्गोऽस्तु सशरीरस्य त्रिशङ्करस्य शाश्वतः ॥ २८ ॥
 नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ।


  1. ज्येष्ठपत्न्याः कनिष्ठपत्न्यामिवेत्यर्थः
  2. दिवं-ब्रह्मसृष्ट, स्वत्सृष्टं वा स्वर्गम्-ति.
  3. स्वमहा-ग.