पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
249
एष पूर्वाश्रमो राम ! वामनस्य महात्मनः

 इह राम ! महाबाहो ! विष्णुर्देववरः प्रभुः ।
 वर्षाणि सुबहून्येव तथा युगशतानि च ॥ २ ॥
 तपश्चरणयोगार्थमुवास सुमहातपाः ।

 इहेत्यादि । हे राम ! इह-भूलोके इहाश्रमपदे देववरः प्रभुर्विष्णुः-विराट्पुरुषः प्रजापतिर्ब्रह्मा तपश्चरणयोगार्थं तपश्चरणोपेतः, योगः-समाधिः स्वकसहजभूमविराट्तुर्यब्रह्मानन्यतामयनिजतत्त्वानु- सन्धानात्मकः, तत्सिद्ध्यर्थं उवास । समूलकार्योपाधेरस्य विराजः तत्त्वव्रते परमकारणं तुरीयं ब्रह्मैव विषयः । उक्तयोगं स्वीयं विराड-विष्णुरेव जगौ--"पश्य मे योगमैश्वरं । परं भावमजानन्तो ममाव्ययमनुत्तमम्" इत्यादि । किमर्थोऽयं योगो विराजः ? तुर्यवदप्रतिहतज्ञानक्रियाशक्तितयैव प्रतियुगं भूत्वा भूत्वा स्वसृष्टस्रोतसः स्वाहरन् तत्पञ्चकृत्यप्रवर्तनार्थमेव । आधारशक्तिप्राधान्यमेव विराजः । केवलं सम्राजः क्रियाशक्तिप्रधान्यम् । स्वराजो भगवतो ज्ञानशक्तिप्राधान्यम् । तुर्यस्य श्रीमदादिगुरोर्ब्रह्मणः सर्वातीतत्वेन विराडादित्रिब्रह्ममूर्तिलीलामूर्तित्वेन च तस्य तस्येव सर्वं तस्य प्रधानम् । 'प्रजापति-रकामयत प्रजास्सृजेयेति' 'स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत इत्यादिसर्वश्रुत्यैककण्ठो विराजो नित्यतपश्चरणयोगः । अत एव सुमहातपाः ॥ २ ॥

 एष पूर्वाश्रमो राम ! वामनस्य महात्मनः ॥ ३ ॥
 सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ।

 एष इत्यादि । हे राम! महात्मनो वामनस्य करिष्यमाणवामनाबतारस्य विष्णोः एषः पूर्वाश्रमः- वामनावतारात् पूर्वकाले तदुचितमातापित्रादिपरिकरसिद्धिप्रयोजनकयोगार्थं परिगृहीत आश्रमस्तथा ।