पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५ सर्गः]
229
एनां राघव ! दुर्वृत्तां जहीति मुनिरादिशत्

 अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।
 पुरुषादी महायक्षी विरूपा विकृतानना ॥ १२ ॥
 इदं रूपं विहायाथ दारुणं रूपमस्तु ते

 पुरुषादीति । जतिलक्षणङीष् । कोपवशाद्विरूपविकृताननत्वम् । वैरूप्यं-क्रोधवशजमुखारुण्यदि । इदं रूपं-यक्षीरूपम् । दारुणं रूपमिति । पुत्रवदेव राक्षसं रूपमित्यर्थः ॥ १२ ॥

 सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ॥ १३ ॥
 देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।

 देशोत्सादने हेतुगर्भविशेषणम्-अगस्त्यचरितमिति ॥ १३ ॥

 एनां राघव ! दुर्वृत्तां यक्षीं परमदारुणाम् ॥ १४ ॥
 गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।

 यक्षिः यक्षी यक्षिन्-इति रूपत्रयमप्यस्ति ॥ १४ ॥

 न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ॥ १५ ॥
 निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन !

 शापः--आगस्त्यः ॥ १५ ॥

 न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ! ॥ १६ ॥
 चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।

 हे नरोत्तम ! ते स्त्रीवधनिमित्ता या घृणा सा त्वया न कार्येति योजना । कुत एवमित्यतः-चातुर्वर्ण्यहितार्थायेति । स्वार्थे ष्यञ् ॥ १६ ॥

 नृशंसमनृशंसं वा प्रजारक्षणकारणात् ॥ १७ ॥
 पातकं वा सदोषं वा कर्तव्यं रक्षता [१]सदा ।


  1. सता-सतां-ङ.