यथोक्तं तत्सुविहितम्, अतः परं यदुक्तं भविष्यति तच्च यथोक्तं करिष्यामः ॥ १७ ॥
ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ १८ ॥
तत इति । द्विजातिनियोजनानन्तरमित्यर्थः ॥ १८ ॥
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १९ ॥
सर्वदेशेष्विति । स्थितानिति शेषः ॥ १९ ॥
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।
निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ २० ॥
तमानय महाभागं स्वयमेव सुसत्कृतम् ।
[१]पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २१ ॥
वेदेषु निष्ठितं स्वयमेवेति । [२]न तु मनुष्यमुखेन । कुत एवं विशेषः? कुतश्च तदानयनस्य प्रथममुपदेशः ? इत्यतः–पूर्वेत्यादि । पूर्वकालमारभ्यैवास्मद्राज्ञा यौतादिसर्वसम्बन्धवानिति ज्ञत्वा तत एव हेतोः पूर्वं तस्यानयनं ते ब्रवीमि ॥ २१ ॥
तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।
वयस्यं राजसिह्नस्य स्वयमेवानयस्व ह ॥ २२ ॥