पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
64
[अयोध्याकाण्ड:
दशरथदिष्टान्तः


उभावपि च शोकार्तौ अनाथौ कृपणौ वने ।
क्षिप्रमेत्र गमिष्यावः [१]त्वयाऽहीनौ यमक्षयम् ॥ ३८ ॥

 यमक्षयं-यमगृहम् ॥ ३८ ॥

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।
[२] क्षमतां धर्मराजो मे बिभृयात् पितरावयम् ॥ ३९ ॥

 ऋषिः सहगमनप्रयोजनमाह- तत इत्यादि । यमक्षयं प्रति सहगमनानन्तरमित्यर्थः । भारतीं-वाक्यं प्रवक्ष्यामि । कीदृशीमित्यतः- क्षमतामित्यादि । धर्मराजः भवान्, अयं मे पुत्रः पितरौ बिभृयादिति यत्, अतोऽयं क्षमतां-शस्त्रहतत्वतो दुर्मरणमूलपापं क्षमताम् ॥ ३९ ॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृशस्य ममाऽक्षय्यां एकामभयदक्षिणाम् [३] ॥ ४० ॥

 एवं मया प्रार्थितो धर्मात्मा दुर्मरणजदुर्गतिं निवर्तयित्वा ईदृशस्य याचतः मम अक्षय्यामेकामभयदक्षिणां दातुमर्हति ॥ ४० ॥

[४] अपापोऽसि यथा, पुत्र ! निहतः पापकर्मणा ।
तेन सत्येन गच्छाशु [५]ये लोकाः शस्त्रयोधिनाम् ॥ ४१ ॥

 अथेदानीं त्रिशङ्कुं विश्वामित्र इव, स्वमहिम्ना स्वसुतं स्वर्गं प्रापयति — अपापोऽसीत्यादि । हे पुत्र ! पापेन कर्मणा -शस्त्रवधलक्षणेन


  1. त्वया सह-ङ., त्वया हीनौ-च.
  2. क्षमतां मत्पुत्रस्य त्वपरिसरागमनविलम्बं सहताम्- गो. पुत्रवियोगजनकं मम
    पूर्वकृतापराधं क्षमताम्-ति.
  3. पुत्रपुनरुज्जीवनं वात्र विवक्षितम् । तदसंभवशंकया च उत्तरश्लोकप्रवृत्तिः ।
  4. नन्वस्य तपस्विनः ब्रह्मलोकप्राप्तिरेव वक्तव्या, शस्त्रहननमात्रेण
    शस्त्रयोधिनां लोकं प्राप्यत्वेन बदति, एतत् कथमुपपद्यते – उच्यते-- 'द्वाविमौ पुरुषौ लोके
    सूर्यमण्डलभेदिनौ । परिव्राट् योगयुक्तश्च रणे चाभिमुखो हृतः ॥' इति शस्त्रयोधिनामुत्कृष्टलोकप्राप्तिश्रवणात् न दोषः- गो.
  5. ये लोकास्त्वत्र - ङ.