पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
62
[अयोध्याकाण्डः
दशरथदिष्टान्तः


नय नौ, नृप ! तं देशं इति मां चाभ्यभाषत ।
अद्य तं द्रष्टुमिच्छावः पुत्रं [१] पश्चिमदर्शनम् ॥ २७ ॥

 द्रष्टुं - अनुभवितुं, स्पर्शनादिनेति शेषः । पश्चिमदर्शनं- सर्वान्तदर्शनमिति यावत् ॥ २७ ॥

रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् ।
शयानं भुवि निस्संज्ञं धर्मराजवशं गतम् ॥ २८ ॥
[२] अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ २९ ॥
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ।
निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥ ३० ॥

इदमब्रवीदिति । वक्ष्यमाणरूपं लौकिकं प्रलापमित्यर्थः ॥ ३० ॥

नाभिवादयसे माऽद्य न च मामभि भाषसे ।
किं नु [३] शेषे तु भूमौ त्वं, वत्स ! [४] संकुपितो ह्यसि ॥ ३१ ॥

संकुपित:--संकोप प्राप्तः ॥ ३१ ॥

[५] न त्वहं [६]तेऽप्रियः, पुत्र! मातरं पश्य, [७]धार्मिक !
किं नु नालिङ्गसे, पुत्र! सुकुमार! वचो वद ॥ ३२ ॥

अप्रिय इति पदम्, अप्रियकारी नास्मीत्यर्थः ॥ ३२ ॥

कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम् ।
अधीयानस्य मधुरं शास्त्रं वाऽन्यत् विशेषतः ॥ ३३ ॥


  1. 'अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम्' अन्तिमदर्शनं तं द्रष्टुमिच्छावः ।
  2. अहं तौ तं देशं नीत्वा तं पुत्रं अहमस्पर्शयमित्यन्वयः ॥
  3. शेषेऽच-ङ,
  4. किं कुपि-ङ. च.
  5. अहं ते प्रियः न तु चेत्-गो.
  6. ते प्रियः-ङ.
  7. धार्मिकीं- ङ.