पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
58
[अयोध्याकाण्डः
दशरथदिष्टान्तः


यत् [१]व्यलीकं कृतं, पुत्र ! मात्रा ते यदि वा मया ।
न तन्मनसि कर्तव्यं त्वया, तात ! तपस्विना ॥ ९ ॥

 व्यलीकं- अप्रियम् ॥ ९ ॥

त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ।
समासक्ताः त्वयि प्राणाः किं त्वं नौ नाभिभाषसे ॥ १० ॥

 नौ-आवां प्रति किञ्चिदपि नाभिभाषसे, तत् कस्मादिति शेषः ॥ १० ॥

मुनिमव्यक्तया वाचा तमहं [२] सज्जमानया।
हीनव्यञ्जनया प्रेक्ष्य [३]भीतोऽभीत इवाब्रुवम् ॥ ११ ॥

 तं- पदशब्दं श्रुत्वा पुत्रघिया वदन्तम् । सज्जमानया- गद्गदया, अत एव हीनव्यञ्जनया— व्यञ्जनाक्षरव्यक्तिरहितया । [४] भीतोऽपि सन् अभीत इवाब्रुवम् ॥ ११ ॥

[५]मनसः कर्म चेष्टाभिः अभि संस्तभ्य वाग्बलम् ।
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ १२ ॥

 इदमेव प्रतिपाद्यते -मनस इत्यादि । मनसः कर्म-भीतिरूपम् । वाग्बलमवष्टभ्य साध्याभिः चेष्टाभिः-अभीतिसाध्यव्यवहारैः अभि--


  1. अलीकं-ङ.
  2. सज्जमानया-स्खलन्त्या, हीनव्यञ्जनया- अस्पष्टाक्षरया-गो.
  3. भीतिचित्त इव-च.
  4. भीतोऽपि सन् भीतः, अत्यन्तभीत इत्यर्थ:- गो.
  5. मनसः कर्म-ऊहापोहात्मकं, चेष्टाः- इन्द्रियनियमनरूपव्यापाराः । ताभिः वाग्बलमभिसंस्तभ्य-रखलितां वाचं बलात् दृढीकृत्येत्यर्थः ।
    ………. यद्वा – लज्जाभीतिप्रभृतिमि: मन्दवचनो भूत्वेत्यर्थः- गो.