पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
56
[अयोध्याकाण्डः
दशरथदिष्टान्तः


चतुष्षष्टितमः सर्गः

[दशरथदिष्टान्तः]

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः ।
विलपन्नेव धर्मात्मा कौसल्यां [१] पुनरब्रवीत् ॥ १ ॥

 अथ तत्पितृदर्शनादिशेषवृत्तान्तकथनम् । वघमित्यादि । राघवः–दशरथः । विलपन्नेव - पुत्रं प्रति विलपन्नेव कौसल्यां प्रति तस्य महर्षेः अप्रतिरूपं - [२] अतितरामनुचितं वधं पुन: - पाश्चात्यवृत्तान्तं च अब्रवीत् । इदं कविवचनम् ॥ १ ॥

तदज्ञानात् महत् पापं कृत्वाऽहं सङ्कुलेन्द्रियः ।
एकस्त्वचिन्तयं बुध्या कथं नु सुकृतं भवेत् ॥| २ ॥

 तदेव प्रतिपाद्यते – तदित्यादि । सङ्कलितेन्द्रियः - क्षुभितेन्द्रियः । एकः- एकाकी च अहं गत्वा ’तं प्रसादय' इत्याद्युक्त- मुनिकुमारवचनानुष्ठानं कथं नु सुकृतं-सुष्ठु संपादितं भवेदिति बुध्या अचिन्तयम् ॥ २ ॥

ततस्तं घटमादाय पूर्णं परमवारिणा ।
आश्रमं तमहं प्राप्य यथाऽऽख्यातपथं गतः ॥ ३ ॥

 ततस्तमित्यादि । ततः एवं चिन्तयित्वा । यथाऽऽख्यातपथं- मुनिकुमारोपदिष्टमार्गम् ॥ ३ ॥

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ ।
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ ४ ॥


  1. इदम-च,
  2. असाधारणं वा ।