पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
20
[अयोध्याकाण्डः
दशरथाक्रन्दः


न च सर्पन्ति [१] सत्त्वानि व्याला न प्रचरन्ति च ।
रामशोकाभिभूतं तत् निष्कूजमभवद्वनम् ॥ ६ ॥

 निष्क्रान्तः कूज:-शब्दः यस्मात् तत्तथा ॥ ६ ॥

लीनपुष्करपत्राश्च, [२] नरेन्द्र ! कलुषोदकाः ।
सन्तप्तपद्माः पद्मिन्यः लीनमीन [३] विहङ्गमाः ॥ ७॥

 लीनं-सङ्कुचितं पुष्करपत्रं-नलिनीदलं यासां तास्तथा ॥ ७ ॥

जलजानि च पुष्पाणि [४] माल्यानि स्थलजानि च ।
नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ ८ ॥

 स्थलजानि माल्यानि-पुष्पाणि । अल्पगन्धीनि, मत्वर्थीय इनिः ॥ ८ ॥

[५][६]अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि, मनुजर्षभ । ॥ ९ ॥
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।
नरा राममपश्यन्तः निश्वसन्ति मुहुर्मुहुः ॥ १० ॥
देव ! राजरथं दृष्ट्वा विना राममिहागतम् ।
[७]दुःखादश्रुमुखः सर्वः राजमार्गगतो जनः ॥ ११ ॥

 देव इति सम्बुद्धिः ॥ ११ ॥

हर्यैर्विमानैः प्रासादैः अवेक्ष्य रथमागतम्
हाहाकारकृता नार्यः रामादर्शनकर्शिताः ॥ १२ ॥


  1. भूतानि-ङ.
  2. नद्यश्च-ङ. च.
  3. विहङ्गमा: हंसादयः ।
  4. 'माल्यं पुष्पे पुष्पदाम्नि ' वैजयन्ती ।
  5. उद्यानं-आक्रीडः । आराम:-कृत्रिमवनं-गो. स्वस्य नगरप्रवेशानन्तरदृश्यवर्णनाय व्युच्छित्ति-विशेषसूचनाय 'अत्र' इत्युक्तं स्यात् ।
  6. पुरोद्यानानि-ङ.
  7. दूरादश्रु-ङ. च.