पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ सर्ग:] रामोऽपि प्रददौ प्रीस्या भरताय स्वपादुके 6 आरोहतः राज्यानुमतेः भरतहस्ते स्थापनात् प्रतिनिधिपुरस्कारेण रागश्व- मेघवत् राज्यरक्षानियोगं च भरतस्य कृतवान् रामः । एवञ्च 'प्रतिपद्य स्थापय' इति चिरं भरतप्रार्थनं च साधित भगवता ॥ २२ ॥ स पादुके संप्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २३ ॥ फलमूलाशनः, वीर! भवेयं, रघुनन्दन ! तवागमनमाकाङ्क्षन् वसन् वै नगराद्वहिः ॥ २४ ॥ तव पादुकयो र्न्यस्य राज्यतन्त्रं, परंतप !

चतुर्दशे हि संपूर्णे 'वर्षेऽहनि, रघूत्तम ! ॥ २५ ॥ न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् । राज्यतःत्रं –– राज्यव्यापारं तव पादुकयोस्यति । स्वरुध्या विनिवेद्येति यावत् ॥ २५ ॥ तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ॥ २६ ॥ शत्रुघ्नं च परिष्वज्य वचनं चेदमब्रवीत् । मातरं रक्ष कैकेयीं मा रोपं कुरु तां प्रति ॥ २७ ॥ मया च सीतया चैत्र शप्तोऽमि, रघुनन्दन ! इत्युक्ताऽथुपरीताक्षः भ्रातरं विससर्ज ह ॥ २८ ॥ शप्तोऽसीति । रोषाकरणायेति शेषः ॥ २८ ॥ 453 4 घुम्सम-टु,

  • एतदनन्तरं इतिवरणं द्रष्टव्यम् । इत्यब्रवीदिस्यम्बयः । + चतुर्दशे वर्षे

संपूर्णे सति अहनि - उत्तरवर्षादिमदिने-गो. अनि समनन्तरदिन पत्रेति यावत् । भरतं - ङ. 2 वर्षे हि रघुनन्दन- ङ. " र्न्यस्त राज्यतःचः - ङ.