पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

442 भरतप्रायोपवेशः [अयोध्याकाण्ड: यत् वृत्तं तनये कुरुत इति । यादृशं पुत्रस्योपकारमित्यर्थः । कृतं न सुप्रतिकरमिति | खलन्तोऽयम्, अशक्यप्रत्युपकारमित्यर्थः । यत् कृतमिति । यच्छन्दः प्रसिद्धिवाची, किं कृतमिति ॥ ९ ॥

  • यथाशक्तिप्रदानेन स्नापनोच्छादनेन च ।

नित्यं च प्रियवादेन तथा संवर्धनेन च ।। १० ।। अतः – यथाशक्तीत्यादि । यथाशक्ति बालस्य जीवनार्थ- पदार्थस्वीकारशक्तचनुशेषतः प्रदानेन तैलक्षीरान्नादिप्रदानेन । उच्छादनं - उद्वर्तनं-लेपपिष्टादिना ॥ १० ॥ N स हि राजा दशरथः + पिता जनयिता भम । 'आज्ञापयन्मां यत्तस्य न तन्मिथ्या भविष्यति ।। ११ ।। जनयिता - उत्पादकः पिता - पातेस्तृचि औणादिकमित्वम्, उक्तरीत्या रक्षिता चेत्यर्थः ॥ ११ ॥ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच 'परमोदारः सुतं परमदुर्मनाः ।। १२ ।। प्रत्यनन्तरं-आसन्नम् ॥ १२ ॥ वह तु स्थण्डिले शीघ्रं कुशानास्तर, सारथे ! आर्य + प्रत्युपवेक्ष्यामि यावन्मे 'संप्रसदिति ।। १३ ॥

  • यथाशक्तिप्रदानेन – स्तन्यान्नादिप्रदानेन - गो. 'जनयिता पिता' इति

गौणपितृव्यावृत्तिः - गो. प्रत्युपवेक्ष्यामि – प्रतिरोस्यामीत्यर्थ:- गो. हुपतदुत्तरं 'निराहार: ' इत्यादिपचं प्रक्षिप्तमिति कतकः स्वरस:-ति. परन्तु सर्गान्ते लोकसंख्या इति कतक पवोक्तं विमृष्टव्यम् । 3 न प्रसीदति- इ. .! आज्ञातं यन्मया तस्य-ङ. घिपुलोरस्क:-च.