पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० सर्ग: ] एवं तु कुपितं रामं वसिष्ठोऽसान्त्वयत्तदा अथ वसिष्ठो भगवान् जाबालिविषयकं रामकोपमुपशमयन्, ब्रह्माणमारभ्य प्रवृत्तकुलाचारो ज्येष्ठाभिषेक: ; अतस्त्वयाऽभिषेक: स्वीकार्य इति बोधनशेषतया * भगवन्तमारभ्य कुलक्रमं कथयति । क्रुद्धमित्यादि । अस्य लोकस्येति । आइन्तसंसक्तस्रोतसामित्यर्थः । गतागतिमिति । गतिपूर्विका आगति:-- गतागतिः, प्रवृत्तिनिवृत्ती इत्यर्थःे ॥ १ ॥ 431 इमां लोकसमुत्पत्ति, लोकनाथ ! निबोध मे ॥ २ ॥ लोकसमुत्पत्ति कथयिष्यन् सर्वज्ञो भगवान् वसिष्ठस्तु रामं लोकनाथावतारमेव जानानः लोकनाथेति सम्बोधयति । अज्ञास्तु तदर्थं सभावर्तिजनेश्वरमिति गृह्णन्ति ॥ २ ॥ सर्व सलिलमेवासीत् पृथिवी 'यत्र निर्मिता । ततः समभवत् ब्रह्मा स्वयंभूतैः सह ॥ ३ ॥ सवै सलिलमेवासीदिति । अहरादौ पूर्वाह्नान्तेऽपहृतस्रोतः- पुनस्सर्ग काले सर्व – वैराजत्रिस्रोतोजातं सलिलमेवासीत् - सलिल - सत्त्व भूर्ताव राडिग्रह ब्रह्मात्मक सोपादानात्मनाऽवस्थित मभूत् । यत्र - सलिले तस्यैव विराजः- प्रजापतेः - विष्ण्वाकारप्रयोजिका पृथिवी निर्मिता- प्रतिष्ठिताऽपि तादृक्सलिलप्रषानविराड्ब्रह्मस्वरूपै वा भूदित्यर्थः । 'सहस्र- युगपर्यन्तमद्दर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः' इतिन्योयन कालात्मकेन सम्राजस्तावद्रात्रिजालक्षपणानन्तरं चिदाकाशमयो भगवान् स्वयंभूः स्वेच्छया स्वभूमव्युपग्रहेषु सन्निधानवान् "

  • कुलमाहात्म्यस्मारणेन मनःप्रसादनार्थं च -- इत्यप्यूपम् ।

गमनं - परलोकप्राप्तिं तत इहागतिं च-गो. तत्र-ख, + गतं --