पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं ब्रुवाणं नास्तिक्यं जाबालिं राघवोऽब्रवीत्.. नवोत्तरशततमः सर्गः [ जाबालिवचननिराकरणम् ]

  • 1

जाबालेस्तु वचः श्रुत्वा रामः सत्यपराक्रमः । उवाच परया ' सूक्तया बुद्धधा विप्रतिपन्नया ॥ १ ॥ 2 १०९ सर्ग:] एवं जाबालोक्तं भगवान् रामः पृष्ठीकरोति । जाबालेरित्यादि । सत्यः - सत्यमूलः सत्यप्रधानः पराक्रम: - प्रतापः यस्य स तथा । इदं साभिप्रायं विशेषणं वक्ष्यमाणार्थम् । विप्रतिपन्नया – जाबालोक्तार्थे प्रतिपत्तिरहितया बुध्या युक्तः सन् सूक्तया-- वेदशास्त्रलक्षण सुवचना वलम्बनेन उवाच ॥ १ ॥ भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्यं कार्यसङ्काशं अपथ्यं #पथ्य'सन्निभम् || २ || प्रियकामार्थं—प्रीतिहेतुकामभोगसंपादनार्थमित्यर्थः । अकार्य परमार्थतया कर्तुमनुचितं, पामरदृशा कार्यसङ्काशं--प्रमाणाभासो- पपत्तिमत्त्वात् कार्यवत् भासमानम् । तथाऽग्रेऽपि ॥ २ ॥ $ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः । मानं न लभते सद्भिः || भिन्नचारित्रदर्शनः || ३ || 417

  • सत्यात्मनां — सत्यबुद्धीनाम् । भक्तया - वैदिक धर्मश्रद्धया अविपन्नया-जाबालि

वचनैः सांदृष्टिकैरप्यचलितया - गो. + प्रियकामार्थ- अनुवर्तनार्थमिति भावः । अत्र उत्तराधें तदिति पूरणीयम् । ॐ पथ्यसम्मितं- पथ्यवदवभासमानम्-गो. § एवं वचनं दूषितं, व्यथ वक्तारं दूषयति - निर्मर्याद इत्यादिना - गो. || दर्शनं- मतं वेदविहितात् मिन्नाचारप्रतिपादक मतप्रवर्तक इत्यर्थः । एवंभूतः पुरुषः सत्सु मानं-पूजां न लभते- गो. सत्यात्मनां वरः - ङ. 2 सम्मितम्-ङ. 27 BAMAYANA-VOL. IIT 3 भक्तया स्वबुद्धया चाविपन्नया - ङ.