पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामप्रतिवचनम् [अयोध्याकाण्डः - तर्धा गन्तव्यमित्यत्राइ - पुरेत्यादि । हे आतः | भरत ! नः पिता मातामहे -- केकये त्वन्मातृ रिग्रहाय राज्यशुल्कं अश्रौषीत्, 'पथि देये शुल्कमस्त्री जामात्रा यच दीयते', त्वद्दौहित्रस्य राज्यं दास्यामीति राज्यमेव शुल्कत्वेन प्रतिज्ञातवानित्यर्थः । ननु कैकेय्या वरणं किमर्थमुपाचं राज्याय ? राज्यस्य स्वशुरुकत्वमेव कुतो न स्मारितम् ? उच्यते — 'स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे । गोब्राह्मगार्थे हिंसायां नानृतं स्याज्जुगुप्सितम्' इति स्मृतेः कौसल्यायां प्रधान- महिष्यां स्थितायां स्वविवाहस्य नर्मार्थविवाह मात्रत्वात् एतन्निमित्तवचनं राज्ञा न दीयेतापि इत्याशङ्कया, साक्षात् स्वोपकारप्रत्युपकारदत्तं वरमेव स्वप्रयोजनाय वृतवती* ॥ ३ ॥ 406

  • उमासहितायां पार्वर्ती प्रति शिववचनं 'पट्टामिषेकसमये भवेयं स्मारितो झहम् ।

स्वया वाइन्येन भूगल तथा चेत् करवाण्यहम् । इत्थं प्रतिज्ञामकरोत आहिताग्न्यप्रणीर्नृपः ' इति कैकेयीविवाहसमये के कयदशरथसंकेतस्य विद्यमानत्वाश्चादोष:-ती. अत्रेदमवधेयम्-- दशरथस्य पत्न्यः सार्धत्रिशन मिति सुविदितम् । (अयो, 34-13)। महिष्यस्तु तिन एव, कौसल्यासुमित्राकैकेय्यः । अत एव पताम्य पत्र पायसदानम्, न सर्वाभ्यः । पतेन कैकेयीविवाहस्य नर्मविवाइत्वं न स्वरसम् । किन्तु कौसयां अप्राप्त पुत्रस्य दशरथस्य पुत्रार्धमेव सुमित्राविवाहः । तस्यामपि पुत्रादर्शनात कैकेयीविवाह: । तदा च, कैकेयीविवाहानन्तरं यदि दैवात् कौसल्यासुमित्रयोः पुतशंकमानेन कैकेयीपित्रा कैकेयी पुत्राय राज्यशुल्क प्रार्थितम् । परन्तु केकेय्याम पुत्रो न जात एव । तेन च दशरथश्चिन्ताकुलो बभूव (बाल 8-1)। ततः पुत्रकामेष्टया देवानुग्रह बलात् सुतानवाप । एव यथामनीषितं कैकेय्यां पुत्रालाभात्, पुत्रकामेथ्या पुत्रप्राप्तेः महिषीत्रयसाधारण्यात्- कैकेयी विवाहकालिकी शुल्कप्रतिश स्वयं दुर्बला जातैव । अत एव कैकेयी न तद् स्मारित- वर्तीति ज्ञायते । अत्रापि रामः अत एव -- अनन्तर श्लोक एव 'देवासुरे च संग्रामे ' इति हेलन्तरं वदतीति प्रतीयते । किश्च विवाहकाले भरतामिषेकमात्रस्यैव प्रतिज्ञातत्वेन, तेन रामविवासनं प्रायितुनशक्यमेव । रामविवसनामावे भरतराज्यप्रतिष्ठा न संभाविनी । अतश्च वरद्वयं अत्यावश्यकमिति जानन्ती मन्थरा न वैवाहिकप्रतिशांबोधितवती, कै.के.पि तथैव आचरितवतीति च ज्ञायते ॥