पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सर्ग:] ] इदैव स्वामिषश्चन्तु सर्वे मन्त्रिपुरोहिताः इहैव त्वाऽभिपिश्चन्तु सर्वाः प्रकृतयः सह । ऋत्विजः सवसिष्ठाश्थ मन्त्रवन्मन्त्रकोविदाः ॥ २६ ॥ अभिषिक्तस्त्वमस्माभिः अयोध्यां पालने व्रज विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ २७ ॥ पालने - राज्यपालननिमित्तम् । तरसा-ब - बलेन । लोकान् मरुद्भिरिव अस्मामिस्सहेति योजना || २७ || ★ ऋणानि त्रीण्यपाकुर्वन् दुर्हद: साधु निर्दहन् । सुहृदस्तर्पयन् कामैः त्वमेवात्रानुशाधि माम् ॥ २८ ॥ ऋणानि त्रीण्यपाकुर्वन्निति । ननु 'जायमानो वै ब्राह्मण- स्त्रिभिः ऋगवा जायते' (तै. सं. ६-३-११) इति श्रुतौ सत्यां कथं क्षत्रियस्य ऋणसम्बन्धः ? ब्रह्मगेन यैः स्वश्रुतर्णत्रयमपा- करणीयं तेषां ब्रह्मचर्यादीनां क्षत्रियस्य विधानात् गायत्रीसम्बन्ध इवानुकल्पस्त्रयार्णसम्बन्धः क्षत्रियस्यापि । अत्रेति । अयोध्यायां स्थित्वति शेषः ॥ २८ ॥ अद्यार्य ! मुदिताः सन्तु सुहृदस्तेऽभिषेचने । अद्य भीताः पलायन्तां 'दुष्प्रदास्ते दिशो दश ॥ २९ ॥ दुष्प्रदाः—दुःखप्रदाः ॥ २९ ॥ आक्रोशं मम मातुश्च प्रमृज्य, पुरुपर्पभ ! अद्य तत्रभवन्तं च पितरं रक्ष किल्विपात् ॥ ३० ॥ आक्रोशं-- निन्दाम् । तत्रभवन्तं - पूज्यम् ॥ ३० ॥ 403

  • विजिय,

स्थित इति शेष:- गो. + आक्रोशं-- शापं, आक्षेप: ' इति इलायुधः, जनकर्तृकमिति शेष:- गो. 1 दुहेद, अरय - ङ. शाप आक्रोश 26*