पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतप्रार्थना [अयोध्याकाण्ड: पितुर्हि 'यदतिक्रान्तं पुत्रो यः * साधु मन्यते । तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ १५ ॥ अतिक्रान्तं – साध्वर्थस्याननुष्ठानं, मावे निष्ठा, साधु मन्यते- संपादयति तत् अपत्यं - अपतनसावकत्वात् अपत्यशब्दसम्मत- मित्यर्थः ॥ १५ ॥ 1 400 तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः । + 2 अति यत् तत्कृतं कर्म लोके 'धीरविगार्हतम् ।। १६ ।। भवान् अपत्यमेवास्तु - अन्वर्थापत्यशब्दवाच्य एवास्तु | अतो भवान् पितुः दुष्कृतं - मा, अनुमन्यतामिति शेषः । एवञ्च पितृवचसः परिपाल्यत्वाविशेषात् पितुरभिषेकवचनमेव परिपालयेत्युक्तं भवति । तत्कृतं - दशरथकृतं धीरैर्विगर्हितम् ॥ १६ ॥ 4 कैकेयीं मां च तातं च सुहृदो बान्धवांच नः | पौरजानपदान् सर्वान् + 'त्रातु सर्वमिदं भवान् ॥ १७ ॥ क्क चारण्यं क्व च क्षात्रं क्क जटा क्व च पालनम् । ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ १८ ॥ तथा तत्कृतवनवासस्य गर्हितत्वमेव स्पष्टयति चेत्यादिना ॥ १८ ।।

  • साधुमन्यते - साधुकर्तुं मन्यते - गो. + माऽभिपत्ता (पा.) - प्राप्तुं नाईसि - गो.

‡ा इदं सर्वे - मदुकं भवान्नुमन्यतामिति भावः-ति. समति-च. 2 अभिपता कृतं- ङ. पतान्- ङ. त्रा - व. - क वीर-ङ.