पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

398 भरतप्रार्थना Fin [भयोध्याकाण्ड:

  • अमरोपमसत्वस्त्वं महात्मा सत्यसङ्गरः ।

सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि, राघव ! ॥ ६ ॥ सत्त्वं — सत्त्वोद्रिक्तसर्वप्रकृतिः ॥ ६ ॥ www. न त्वामेवंगुणैर्युक्तं प्रभवा 'भवकोविदम् । 2 + अविषह्यतमं दुःखं आसादयितुमर्हति ॥ ७ ॥ प्रभवाभव कोविदं-- सकलभूतप्रभवाप्ययप्रवृत्तिनिवृत्तिमार्गतत्त्वज्ञ- मित्यर्थः । आसादयितुं – अवसादयितुम् ॥ ७ ॥ प्रोषिते मयि यत्पापं मात्रा मत्कारणात् कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान् मम ॥ ८ ॥ मत्कारणात् - मत्प्रयोजनानिमित्ततः । मे अनिष्टं-असम्मतमेव । अतो भवान् प्रसीदतु -- मम राज्यं परिगृह्णात्विति यावत् ॥ धर्मबन्धेन बद्धोऽसि तेनेमां नेह मातरम् । हन्मि तीव्रेण दण्डेन दण्डाहाँ पापकारिणीम् ॥ ९ ॥ इहेमां मातरं-इहापराधे कैकेयीमित्यर्थः ॥ ९ ॥ कथं दशरथाज्जातः 'शुद्धाभिजनकर्मणः । जानन् धर्म मधर्मिष्ठं कुर्या कर्म जुगुप्सितम् ॥ १० ॥ गुरुः क्रियावान् वृद्धश्च राजा ग्रेतः पितेति च । तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ११ ॥

  • अमरोमेति पृथक्पदम् । सत्त्वः– सत्त्वगुणसंपन्न:- गो.

तमनपि, अस्मदादीनामिति शेष: गो. 1 भाव-च. इत्यधिकम्- ङ. 3 + अविषय- एतदनन्तरं - एवमुक्त्वा तु भरतः रामं पुनस्थाब्रवीत् शुभा-च. " मधर्म च-च.