पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८ सर्गः]
9
लब्धसंज्ञः स पप्रच्छ रामवृत्तं भृशातुरः


विलपन्तीं तथा दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ताः सर्वाः समन्तात् रुरुदुः स्त्रियः ॥ ३३ ॥
ततस्तमन्तःपुरनादमुत्थितं
समीक्ष्य वृद्धास्तरुणाश्च मानवाः ।
स्त्रियश्च सर्वा रुरुदुः समन्ततः
पुरं तदाऽऽसीत् पुनरेव सङ्कुलम् ॥ ३४ ॥

 इत्यार्षे श्रीमद्रामायणे वाक्मीकीये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः


वर्ग(३४) मानः सर्गः ॥ ३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे सप्तपञ्चाशः सर्गः



अष्टपञ्चाशः सर्गः
[रामसन्देशनिवेदनम्]

प्रत्याश्वस्तो यदा राजा मोहात् [१] [२]प्रत्यागतः पुनः ।
अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १ ॥

अथ दशरथेन रामवृत्तान्तप्रश्नः । प्रत्याश्वस्त इत्यादि । प्रत्यागत इति । प्रत्यागतसंज्ञ इति यावत् ॥ १ ॥ 1

अथ सूतो महाराजं कृताञ्जलिरुपस्थितः ।
[३] राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ २ ॥

  1. प्रत्यागतः- सूतस्याभिमुखागतः- गो.
  2. प्रत्यागतस्मृतिः-च.
  3. इदं सर्वे सूतमित्यस्य विशेषणम् ।