पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कञ्चिज्जनपद: स्फीतः सुखं बसति राघव ? - कश्चिन्भागवनं गुप्तं कञ्चित्ते सन्ति * धेनुकाः । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ ५० ॥ नागवनं - गजोत्पत्तिकाननम् । धेनुकाः – कामधेनवः, स्वार्थे कः । गणिकाश्वानामिति । करिण्यः - गणिकाः, 'वेश्या- करिण्योर्गणिका' वैजयन्ती, कंरिण्यादिसंपादनविषये तृतिं नाप्नोषि कच्चित् ? ॥ ५० ॥ १०० सर्ग:] 345 कच्चिद्दर्शय से नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वा, राजपुत्र ! + ' महापथे ॥ ५१ ॥ दर्शयस इति । सभायां स्थित्वाऽऽत्मानमिति शेषः । उत्थायेति । अन्तःकक्ष्येभ्य इति शेषः ॥ ५१ ॥ १ कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया | सर्वे वा पुनरुत्सृष्टाः मध्यमेवात्र कारणम् || ५२ ।। अविशङ्कया --निर्भयतया प्रत्यक्षाः - त्वत्सन्निधिं प्राप्ताः न कच्चित् ? अथवा सर्वे कर्मान्तिकाः पुनरुत्सृष्टाः - दर्शन प्रदानेन परित्यक्ता न! अत्र – कर्मान्तिकविषये मध्यमेव - नातिदर्शनात्यदर्श - नयोर्मध्यमरीत्याश्रयणमेव कारणं – अर्थप्राप्तिकारणम् ॥ ५२ ॥

  • धेनुका: –करिण्यः, 'करिणी धेनुका वशा' इत्यमरः । गणिकावानां-

गणिका: – करिण्य:, ' वेश्याकरिष्योगणिका' इति वैजयन्ती-गो. यद्यपि पूर्वार्धे अश्वा न निर्दिष्टाः, अथापि ते अपि उपलक्षिता इत्यभिप्रायेण उत्तराधे गज-करिणी-अश्वाः- + प्रतिदिनं राजवीय विभूषितं अत्मानं प्रजानुरागाय दर्शयसे कश्चित् । महापथे- सभागामिति यावत्- गो. § कर्मकारा: सर्वे स्वातन्त्र्येण भवन्तं नोपसर्पन्ते कश्चित् तथाऽपि भवता ते अतीवौदासीन्येन विलोकिता न कश्चित् । मध्यमरीतिरनुखियते वा - इति भावः । निर्दिष्टाः । 'महारभ-ङ.