पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामसंगमः अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः । मन्दाकिनीमनु प्राप्तः तं जनं चेदमब्रवीत् ॥ १४ ॥ स राघवः – भरतः मन्दाकिनीमनु चित्रकूटं प्राप्त इत्यन्वयः | तं जनं -- अमात्यादिजनम् ॥ १४ ॥ par 322 [अयोध्याकाण्डः

'जगत्यां पुरुषव्याघ्रः आस्ते वीरासने रतः । 1 जनेन्द्रो निर्जनं प्राप्य धिमे जन्म च जीवितम् ।। वीरासने — योगाय वीरासनावस्थाने रतः सन् जगत्यां- भूमौ आस्ते । ' एक पादमथैकस्मिन् विन्यस्योरुणि संस्थितम् | इतरस्मिंस्तथा चोरुं वीरासनमुदाहृतम्' इति योगवासिष्ठे ।। १५ ।। PTRA for - मत्कृते व्यसनं प्राप्तः लोकनाथो महाद्युतिः । सर्वान् कामान् परित्यज्य वने वसति राघवः ।। १६ ।। ‘मे जन्म धिक्' इत्यत्र कारणमाह - मत्कृत इत्यादि । yapm + इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् । रामस्य निपतिष्यामि ' सीताया + लक्ष्मणस्य च । इति लोकसमाक्रुष्टः—निन्दितः यस्मात् तस्मात् मे जन्म धिक् । सोऽहमेतदपयशःपरिहाराय रामं प्रसादयन् – रामप्रसादहेतवे तस्य रामस्य पादेषु, पूजायै बहुवचनं, सीताया लक्ष्मणस्य च पादयोः

  • जनेन्द्रः सन् निर्जनं देशं प्राप्य - इत्युत्तरार्धपरिशीलने जगत्यां पुरुषव्याघ्र:

सन्- सकललोकपूज्य: सन् वीरासने रत आस्ते । जगत्यां पुरुषव्याघ्र: जनेन्द्र निर्जनं प्राप्य वीरासने रतः आस्ते - इति वाऽन्वयः । सकलजनपरिवृतः राजा एवं एकान्ते मुनिवर्तत इति भावः । ↑ इति लोकसमाक्रुष्टः एवंप्रकारेण लोकैरपवादं प्रापित:- गो. लक्ष्मणस्य कनिष्ठत्वेऽपि कार्यगौरवात् पादपतनम्- गो. नरेन्द्रो-ङ. 2 सीतायाश्च पुन:पुन:- ङ.