पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७ सर्ग:] अपि च श्वाषयामास रामो भरतसद्गुणान् त्वया नहित इति । 'कृत्यानां कर्तरि वा' इति षष्ठी। -अयं भरतः न निष्ठुरं वाच्यः । कुल इत्यतः *न हि भरतेनाप्रिय कृतम् । अहं इति । भरतस्य अतः परं अप्रिये – अप्रियवचने कृते अहं ह्यप्रियमुक्तः स्यां त्वया ॥ १५ ॥ 309 + कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि । आता वा भ्रातरं हन्यात्, सोमित्रे ! प्राणमात्मनः ॥१६॥ आत्मनः प्राणं – प्राणसमं भ्रातरमित्यन्वयः ॥ १६ ।। यदि राज्यस्य हेतोस्त्वं इमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ १७ ॥ इमां वाचमिति । भरतवधवाचमित्यर्थः । अस्मै प्रदीयतां- अस्मै लक्ष्मणाय प्रदीयतामिति वक्ष्यामि ॥ १७ ॥ 1 + उच्चमानोऽपि भरतः मया, लक्ष्मण ! ' तच्चतः । राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।। १८ ।। वचनमात्रेण कि प्रयोजनम् ? स तु न दद्यादित्यत्राह- उच्यमान इत्यादि । प्रयच्छेत्युच्यमान इति योजना ॥ १८ ॥

नञः अनुकर्ष इति , भावः । + पूर्व दशरथो वध्यतां (बध्यतां बध्यतामपि - अयो. 21-12) इत्युक्तम् इदानीं भरतो वध्यत इति । इत उपरि तूष्णीमवस्थाने कार्यहानि: भविष्यतीति भयात् तां रौद्रीं बुद्धिं नियम्य निवर्तयति- कथं निवत्यादिना । प्राणं--प्राणभूतम्- गो. ↑ उच्यमानोऽपि - अहृदयमु कोऽपि तत्वतः बक्ष्यस्येव -- गो. बाद मति 18 1 तद्वचः- च. 2 मंस्यते-च.