पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७ सर्गः ]
5
स स्वयोध्यां निरानन्दां प्राविशत् पिहिताननः


 अतः - परस्य जनस्य किं-कृत्यं समर्थमुचितं, किं प्रियं- प्रियकरं, सुखावहं- इहामुत्रहितावहं इति रामेण परिपालितं नगरं चिन्ताकुलं बभूवेति शेषः ॥ १४ ॥

वातायनगतानां च स्त्रीणामन्वन्तरापणम् |
राम[१] शोकाभितप्तानां शुश्राव परिदेवनम् ॥ १५ ॥

 अनु-अनन्तरं वातायनगतानां स्त्रीणां परिदेवनं चान्तरापणं- आपणमध्ये गच्छन् शुश्राव ॥ १५ ॥

स राजमार्गमध्येन सुमन्त्रः [२] पिहिताननः
यत्र राजा दशरथः तदेवोपययौ गृहम् ॥ १६ ॥
साऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।
कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ १७ ॥
[३]हर्म्यैर्विमानैः प्रासादैः अवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यः रामादर्शनकर्शिताः ॥ १८ ॥

हाहाकारः कृतः -याभिस्ताः-तथा ॥ १८ ॥

आयतैर्विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ १९ ॥

अन्योन्यमभिवीक्षन्ते [४] स्म- -इतिकर्तव्यतामौढ्यादिति शेषः ॥


  1. मेवामि--च.
  2. जनदर्शनाक्षमतया - गो. जनानां प्रत्युत्तरदानेन विलम्बः स्यादिति वा,
    रामविवासनरूपकार्ये स्वस्य सम्बन्धात् लज्जया वा - पिहिताननः ।
  3. हर्म्यादि:- धनिनां वासः, प्रासाद: - देवभूभुजाम, विमानं-सप्तभूमिगृहम् । एतैरुपलक्षितामयोध्यां
    समागतम् । एतत्स्था नार्य इति वा ।
  4. भूतार्थकक्रियापदघटितवाक्यमध्यस्थत्वात् ‘स्म' इत्यध्याहार्यमित्याशयः ।