पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्तः सर्ग:] 11 तत्रापश्यत् तदा रामः सीतां काकेन पीडिताम् प्रक्षिप्तः सर्गः [काका सुरवृत्तान्त: रामस्तु नलिनी रम्यां चित्रकूटं च पर्वतम् । उत्तरतु गिरे पादे चित्रकूटस्य राघवः ॥ १ ॥ ददरी कन्दरं रम्यं शिलाधातुसमन्वितम् । सुखप्र से कैस्तरुमि: पुष्पभारावलम्बिभिः || २ || संवृतं च रहस्यं च मत्तद्विजगणायुतम् । तद्दृष्ट्वा सर्वभूतानां मनोदृष्टिहरं वनम् ॥ ३ ॥ उवाच सीतां काकुत्स्थ: वनदर्शन विस्मितः 1 वैदेहि ! रमते चक्षुः तवास्मिन् गिरिकन्दरे ? ॥ ४ ॥ परिश्रमविघातार्थ साधु तावदिहास्यताम् । त्वदर्थमिह विन्यस्ता त्वियं लक्षणसमा शिला ॥ ५ ॥ यस्याः पार्श्वे तरु: पुष्पै: प्रविष्ट इव केसरैः । राघवेणैवमुक्ता सा सीता प्रकृतिदक्षिणा ॥ ६ ॥ उवाच प्रणयस्त्रिग्धं इदं लक्षणतरं वचः । अवश्यकार्य वचनं तव में, रघुनन्दन ! ॥ ७ ॥ बहुशो भ्रमितश्चाथ तव चैवं मनोरथः । एवमुक्ता वरारोहा शिलां तामुपसर्प है ॥ ८ ॥ सह भर्त्राऽनवद्याज्ञी रन्तुकामा मनस्विनी । तामेवं ब्रुवर्ती सीतां रामो वचनमब्रवीत् ॥ ९ ॥ रम्यं पश्यसि भूतार्थ वनं पुष्पितपादपम् । पश्य, देवि ! गिरौ रम्ये रम्पुष्पानिमान् ॥ १० ॥ गजदन्तक्षतान् वृक्षान् पश्य निर्यासवर्षिणः । झिल्लिकाविरुतैः दीर्थैः रुदतीव समन्ततः ॥ ११ ॥ पुत्रप्रियोऽसी शकुनिः पुत्र पुत्रेति भाषते मथुरां करुणां वाचं पुश्व जननी मम ॥ १२ ॥ विइगो भृङ्गराजोऽयं सालस्कन्धसमास्थितः सङ्गीतमिव कुर्वाणः कोकिलेनावकूजति ॥ १३ ॥ अयं वा बालक: कोकिलानां विहनमः | सुखबडमसम्बद्धं तथा ह्येष प्रभाषते ॥ १४ ॥ 295