पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ सर्ग:] संस्थाप्य सेनां तत्रैव भरतस्त्वरया ययौ यत्ता भवन्तः तिष्ठन्तु नेतो गन्तव्यमग्रतः । अहमेव गमिष्यामि * सुमन्त्रो 'धृतिरेव च ॥ २५ ॥ 1:-यत्ता इत्यादि । यत्ताः - सावधानाः भयभक्ति- युक्ताः कोलाहलमकुर्वन्तः तिष्ठन्तु, नेतोऽग्रतो गन्तव्यमिति । घृति- रिति अशोकमन्त्रिणो नामान्तरम् ।। २५ ।। किमित्यतः- एवमुक्तास्ततस्सर्वे तत्र तस्थुः समन्ततः । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २६ ॥ व्यवस्थिता या भरतेन सा चमूः निरीक्षमाणाऽपि च धूममग्रतः । 3 बभूव हृष्टा नचिरेण जानती + प्रियस्य रामस्य समागमं तदा ।। २७ ।। इत्या श्रीमद्रामायणे वाक्मीकीये अयोध्याकाण्डे त्रिनवतितमः सर्गः Please 283 ASERPI Sijos PPO व्यवस्थिता-व्यवस्थापितस्थितिका । सार (२७) मानः सर्गः ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिनवतितमः सर्गः ·

  • अहमेव राजरसु, मन्त्रिषु सुमन्य एव, ऋत्विक्षु वसिष्ठ एव । धृतिरिति पाठे

सुमन्त्र एवोध्यते-गो. 99 सर्गे 'शत्रुघ्नमनुदर्शयन्' (1), 'शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ ' (40) इति कथनात् शत्रुघ्नोऽपि सह गत इति गम्यते । एवं 'सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत' (3), 'शत्रुघ्नं चाब्रवीत् हृष्टः तानमत्यांश्च सर्वशः' (8), ' ततः सुमन्त्रेण गुहेन चैव' (41), इति दर्शनात सुमन्त्रादयोऽपि केचन गता इति गम्यते । ‘ऋषिं वसिष्टं संदिश्य मातृर्मे शीघ्रमानय । इति त्वरितमग्रे स जगाम' (2), 'बसिष्ठ: पुरतः कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं' (103-1) इति दर्शनात् अन्ते वसिष्ठः कौसल्यादिमिस्सहाssययौ इति गम्यते । जनास्तु यथावकाशं यथावलं आगताः इति 'राम ददर्श सहसा जनः' (102-45) इति कथनात् गम्यते । + नचिरेण – शीघ्रमेव रामस्य समागमं जानती – प्रतीक्षन्ती । 1 गुरुरेव च ङ. 2 स्सैन्या:- 3 भूमिमग्रतः - त्र. जानकी-ङ,