पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

274 भरद्वाजामन्त्रणम् भरद्वाजी महर्षिस्तं ब्रुवन्तं भरतं तदा । प्रत्युवाच * महाबुद्धि: 'इदं वचनमर्थवत् ॥ २८ ॥ 15- ब्रुवन्तमिति । मातारी सकोपं ब्रुवन्तमित्यर्थः ॥ २८ ॥ नि दोषेणावगन्तव्या कैकेयी, भरत ! त्वया । रामप्रव्राजनं ह्येतत् सुखोदकं भविष्यति ॥ २९ ॥ दोषेण – दुष्टकृत्ययुक्तत्वेनेत्यर्थः । कुतो नावगन्तव्येत्यतः- रामेत्यादि । २९ ॥ [अयोध्याकाण्ड: 2 देवानां + दानवानां च ऋषीणां ' भावितात्मनाम् । ● हितमेव भविष्याद्धे रामप्रव्राजनादिह ॥ ३० ॥ हितमेव भविष्यदिति | हि — यस्मात् इह-बने रामप्रव्राजनात् हितमेव - लोकहितमेव सर्वथा भविष्यत् शत्रन्तम्, विजानीहीति शेषः । एवंवाद ऋषीणां नापूर्वः ॥ ३० ॥ अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् ॥ ३१ ॥ अभिवाद्य तु अत एव संसिद्धः – प्राप्ताशीर्वादानुग्रहः । APA युज्यतां –सन्नह्यताम्, गमनायेति शेषः ॥ ३१ ॥ - ततो वाजिरथान् युक्ता दिव्यान् हेमपरिष्कृतान् । अध्यारोहत् 'प्रयाणार्थी बहून् बहुविधो जनः ३२॥ 200

  • महाबुद्धिः - भाविश:-

गो. + दोषेण-दोषवत्तया, नावगन्तव्या; तस्याः देवप्रेरितत्वात् - गो. रावणवधादिकं जानन् ऋषिरेमवोचत् । इदं अनन्तरश्लोके स्पष्टम् । सककलोकहितत्वात् दानवानामपि हितमेव रावणवधादि । "नृशसां पापनिश्चयाम्-ड. 2 च महात्मनाम्-ङ.. 3 प्रयाणार्थ-च. TATAK