पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

268 भरद्वाजामन्त्रणम् द्विनवतितमः सर्गः [भरद्वाजामन्त्रणम् ] ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः । 'कृतातिथ्यो भरद्वाजं * कामादभिजगाम ह ॥ १ ॥

[अयोध्याकाण्ड: अथ भरद्वाजाश्रमात् भरतनिर्याणम् । तत इत्यादि । व्युष्य - उषित्वा । सपरिच्छदः सपरिवार:, 'परिवारः परिकरः परिष्कन्दः परिग्रहः ॥ १ ॥ तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ २ ॥ + अत एवाश्रनादुपनिष्क्रान्तं तं ऋषिरुवाचेति ॥ २ ॥ कच्चिदत्र सुखा रात्रिः तवास्मद्विषये गता । + समग्रस्ते जनः कश्चित् आतिथ्ये शंस मेऽनघ! ॥ ३ ॥ अस्मद्विषये – अस्मदाश्रमे । समग्रः – सम्यक्तृप्तिकः ॥ ३ ॥ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च । $ 2 आश्रमाढ मिनिष्क्रान्तं ऋषिमुत्तमतेजसम् ॥ ४ ॥

  • कामात--रामप्राप्तीच्छ रा-गो. तदाह्रानात पूर्व स्वस्येच्छयेति वाऽर्थः ।

+ एतदृष्टया 'आश्रमादुपनिष्क्रान्तं' इति तृतीयपाद: स्यादिति भाति । " तं ' इत्यस्य विवरणरूपं वा - आश्रमादुपनिष्क्रान्तं - इति । आतिथ्ये विषये समग्र संपूर्णतृप्त इति यावत् । - ४ श्लोकगतपादसांकर्य वेदम् । अनघेत्यनेन पूर्व भरता- शय परीक्षणार्थ मेवातिथ्यकरणमिति योतितम्- गो. § अभिनिष्क्रान्तमित्यनेन कौसल्यादि- सर्वजनदर्शनार्थ भरतागमनकाल एव बहिर्निर्गतवान् ऋषिरिति व्यञ्जितम् - गो. जन- समूहस्य बहुत्वात् सर्वेषां स्वदर्शनेन कृतकृत्यत्वायाश्रमान्निष्क्रान्तम्-ति. सौलम्यादिना वा निष्क्रान्तम् || आदर- I 2 कृतानियं-ड.. आश्रमादुप-च.