पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्टश्व कुशलं तेन साशन महर्षिणा "वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरेऽग्निषु शिष्येषु वृक्षेषु मृगपक्षिषु ॥ ८ ॥ ९० सर्गः ] ] शरीरादित्रयस्य यथायोगमन्तरङ्गबहिरङ्गतया तपस्साघनत्वात् तदनामयप्रश्नः । मृगपक्षिणामभयावस्थानदानद्वारा घर्मसाघनत्वम्, शिष्यवत् प्रियत्वाच्चानामयप्रश्नः ॥ ८ ॥ तथेति तु प्रतिज्ञाय भरद्वाजो महातपाः । भरतं प्रत्युवाचेदं * राघवस्नेहबन्धनात् ॥ ९ ॥ तथेति तु प्रतिज्ञायेति । अनामयमित्युक्तेति यावत् ॥ ९ ॥ 243 किमिहागमने कार्य तव राज्यं प्रशासतः । एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः ।। १० ।। मे मनो न शुध्यत इति । न विश्वसतीति यावत् ।। १० ।। सुषुवे यममित्रघ्नं कौसल्या 'नन्दवर्धनम् । भ्रात्रा सह सभार्यो यः चिरं प्रब्राजितो वनम् ॥ ११ ॥ किं विषयकोऽयमविश्वासः ? इत्यतः - सुषुव इत्यादि । कौसल्या यं सुषुव इत्यन्वयः ।। ११ ।। - नाव- गो.

  • राघवस्नेहबन्धनात् – राघवविषये स्नेहानुबन्धनात्, न तु भरते दोषदर्श-

महर्षिरपि सन् तत्तादृशं भरतं कथं मर्मोक्तिभिरपीडयदिति शंकायां हेतु:- राघवेत्यादि । रामे भगवति अतिशयप्रेम्णा - तदेव बन्धरूपं - पाशरूपं जातमिति--- अतिस्नेह: पापशङ्की' इत्यादिवत्, विषयान्तर चिन्तादीनामप्रसक्तया एवं मर्मोक्तिरिति भावः । + ' सुषुवे' इत्यादि लोकत्रयमेकान्वयम्। चिरं प्रत्राजितः- चिरकालमुद्दिश्य प्रभाजित: - गो. बसिष्ठ इत्यादि लोकद्वयं कुत्रचिन्नास्ति-झ नन्दिवर्धनम्-ड. 2 16*