पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
208
[अयोध्याकाण्ड:
भरतगुहसमागमः


  • । यदा तु खलु दुर्बुद्धिः भरतः स्वयमागतः ।

स एष हि महाकायः कोविदारध्वजो रथे ॥ ३ ॥ यदा तु खलु --यस्माद्धेतोः । दुर्बुद्धिरिति । रामपीडार्थं प्रवृत्त इत्याशयेन अयं वादः । भरत एव स्वयमागतः, तत एव महती सेना प्रदृश्यत इत्यन्वयः । कुतो भरत आगत इति विज्ञायते ? इत्यत्राह- स एष इत्यादि । महाकाय:- महाप्रमाणः । कोविदारध्वजः- -इक्ष्वाकुकुलचिह्नभूतो रथोऽस्ति; 'कोविदारे चमरिकः'- ॥३॥

बन्धयिष्यति वा ' दाशान् अथ वाऽस्मान् वधिष्यति । + अनु दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ ४ ॥

आयातु वा भरतः, किमस्माकम् ? इत्यत्राह - बन्धयिष्यतीत्यादि । स्वामात्यैरिति शेषः । वधिष्यतीति । व್धिः प्रकृत्यन्तरम् । अनु दाशरथिं - दाशरथिसंहारानन्तरमित्यर्थः ॥ ४ ॥

4 संपन्नां श्रियमन्विच्छन् तस्य राज्ञः सुदुर्लभाम् । भरतः केकयीपुत्रः हन्तुं ' समधिगच्छति ॥ ५ ॥ ननु रामसंहारोद्योगो वा किमर्थोऽस्य ? इत्यत्राह – संपन्नामित्यादि । संपूर्णां-- कालान्तरेऽपि रामप्राप्त्या


- 27 विच्छेदरहिताम् । तस्य राज्ञः -- हः - रामस्येत्यर्थः । यदि कालान्तरे आयाति तदा दायादित्वात् राज्यैकदेशं, प्राबल्यतः सर्व राज्यं हरिष्यतीति भीत्या इदानीं तापसा- वस्थायां रामं हन्तुं समाधिगच्छति - प्राप्नोतीव ॥ ५ ॥ -

  • यथा तु खलु -- ध्रुवमित्यर्थः- गो. + ' अथ दाशरथिं' इति पाठे-

अर्धत्रयमेकं वाक्यम् । तस्थ राशः - रामस्य सुदुर्लभां श्रियं अन्विच्छन्- स्वायत्ती- कर्तुमिच्छन्निति भावः, दाशरथिं रामं हन्तुं समधिगच्छतीत्यन्वयः । 1 यथा तु खलु ङ. ' पाशै:-च. 3 अथ - ङ. 1 संपूर्णा- ङ. 5 समुपगच्छति-ङ.