पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
172
[अयोध्याकाण्ड:
भरतशत्रुघ्नविलापः


ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ।
धरायां स्म व्यवेष्टेतां भग्नशृङ्गाविवर्षभौ ॥ २० ॥

 व्यवेष्टेतां-व्यलुठेतामिति यावत् ॥ २० ॥

ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ।
वसिष्ठो भरतं वाक्यं उत्थाप्य तमुवाच ह ॥ २१ ॥

 प्रकृतिमान् - शुद्धसत्त्वप्रकृतिमान्, अत एव वैद्यः--विद्याशब्दात् 'प्रज्ञादिभ्यश्च' इत्यण् - सर्वज्ञ इति यावत्, 'सर्वज्ञभिषजौ वैद्यौ ' ॥ २१ ॥ -

त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते, विभो !
[१]सावशेषास्थिनिचये किमिह त्वं विलम्बसे १ ॥ २२ ॥

 वृत्तस्य – अतीतस्य । सावशेषास्थिनिचये-चिताभस्मोद्धारभूशुद्धिलक्षणावशेषसहितः अस्थिनिचयः - अस्थिसञ्चयनाख्यं कर्म, तस्मिन् कर्तव्य इति शेषः ॥ २२ ॥

[२]. त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ।
तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥ २३ ॥

 त्रीणि द्वन्द्वानीति । अस्ति जायते, वर्धते विपरिणमते, अपक्षीयते विनश्यति इत्येतानि भूतानां-प्राणिमात्रस्याविशेषतः प्रवृत्तानि भवन्ति । तेषु चापरिहार्येषु - अवर्ज्यप्राव्येषु सत्सु त्वं नैवं भवितुं - अत्यज्ञवदतिशोकाक्रान्ततया भवितुं नार्हसि ॥ २३ ॥


  1. दशाहमध्ये शास्त्रविहितं प्रधानावयवास्थिसञ्चयनं कृतम् । त्रयोदशदिवसे
    तद्देशीयशिष्टाचारप्राप्तस्थलशोधनमात्रं कृतमिति न स्मृतिविरोध इत्यप्याहु:-गो.
  2. अशनायापिपासे शोकमोहौ जरामृत्यू इत्युक्तानि त्रीणि द्वन्द्वानि-गो. त्रीणिद्वन्द्वानि
    जन्ममरणे सुखदुःखे लाभालाभे-ती