पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७ सर्ग:
171
तथा रामविवास स स्मरन् भूयोऽन्वतप्यत

ननु ! भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ।
 [१] [२] प्रवारयति सर्वान्नः तन्नः कोऽद्य करिष्यति ॥ १५ ॥

 प्रवारयतीति । बहून्याभरणादीनि दिव्यवस्तून्युपस्थाप्य ’अङ्ग बाल ! इह किं तेऽपेक्षितं तद्गृहाण' इति प्रकर्षेणास्मदस्मदिष्टवरणं कारयति भवान्, तदतःपरमन्यः कः करिष्यति ? ॥ १५ ॥

[३] अवदारणकाले तु पृथिवी नावदीर्यते ।
[४]विहीना या त्वया राज्ञा[५] धर्मज्ञेन महात्मना ॥ १६ ॥

 त्वया विहीना या अवदारणकाल इति योजना ॥ १६ ॥

पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ।
किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ॥ १७ ॥
हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।
अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ १८ ॥
तयोर्विलपितं श्रुत्वा व्यसनं चाप्यवेक्ष्य तत् ।
[६]भृशमार्त[७]तरा भूयः सर्व एवानुगामिनः ॥ १९ ॥

 अनुगामिन:-अनुचराः ॥ १९ ॥


  1. प्रवारयसि – प्रकर्षेण स्वयं ग्राहयसि-ती. गो.
  2. प्रवारयसि, प्रचारयति-ङ.
  3. या पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते--न भिद्यते, स्वयमिति शेषः, सा अवदारणकाले तु - प्रलयकालेऽपि नावदीर्यते
    नावदीर्येतेत्यर्थः - ती. गो. अथ वा धर्मज्ञेन त्वया विहीनत्वादेव प्राप्तेऽप्यवदारणकाले पृथ्वी नावदीर्यते - किमिदमाश्चर्यमन्याय्यं वेत्यर्थः ।
  4. या विहीना-ङ.
  5. रामेण च-ङ.
  6. भृशमार्ततराः, बभूविरिति शेषः ।
  7. खरा-ङ.