पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्गः ]
159
एवं शपथयन् दुःखात् भरतो न्यपतत् भुवि


मायया रमतां नित्यं परुषः पिशुनोऽशुचिः ।
राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥ ५१ ॥

 परुषत्वादिधर्मकः नित्यं मायया रमताम्-तथा रममाणपापं प्रतिपद्यताम् । परुषत्वादिधर्मकत्वादेव राजदण्डात् भीतत्वम् ॥ ५१ ॥

ऋतुस्नातां सतीं भार्यां ऋतुकालानुरोधिनीम् ।
[१]अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥ ५२ ॥

 ऋतुकालानुरोधिनीं- ऋतुस्नानदिवसे स्वसन्निहिताम् ॥ ५२ ॥

[२] धर्मदारान् परित्यज्य परदारान् निषेवताम् ।
[३]त्यक्तधर्मरतिर्मूढः यस्यार्योऽनुमते गतः ॥ ५३ ॥

 निषेवतां यत् पापं तत् प्रतिपद्यताम् । मूढः, भूयादिति शेषः ॥ ५३ ॥

[४] विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् ।
[५]तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ ५४ ॥

 विप्रलुप्ता – अरक्षिता प्रजाता- प्रसूतिका दृष्टादृष्टशक्त्यवलम्बनेन बलात् येन स तथा । अपप्रसवदोषात् स्त्रियं यो न रक्षतीत्यपि यत् पापद्वयं तदेक एव लभताम् ॥ ५४ ॥

पानीयदूषके पापं तथैव विषदायके ।
यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥ ५५ ॥


  1. अतिवर्तेदधर्मात्मा-ङ.
  2. कृत्याकरणाकृत्यकरणयोः संग्रहार्थमुभयोरप्युक्तिः ।
  3. परित्यक्तस्वधर्मोऽसौ- ङ.
  4. अन्नपानाद्यप्रदानेन प्रणष्टसन्तानस्येत्यर्थः, विच्छिन्नसन्तानस्येति वा । यद्वा विप्रलुप्ता-विवर्जिता प्रजाता-
    प्रसूता-जातापत्या जाया येन तस्य-ती. नष्टापत्यस्य - सन्ततिहीनस्येत्यर्थ:- गो.
  5. तदेतत्-ङ.