एतत् पृष्ठम् परिष्कृतम् अस्ति
152
[अयोध्याकाण्डः
भरतशपथः
आर्ये ! कस्मादजानन्तं गर्हसे मामकल्मषम् ।
विपुलां च मम प्रीतिं [१]स्थिरां जानासि राघवे ॥ २० ॥
अजानन्तमिति । अत्रत्यप्रसङ्गमिति शेषः । राघवे मम विपुलां प्रीतिं जानास्येव ॥ २० ॥
सत्यं; जानामि पूर्वम् कथमिदानीम् ? इत्यत्र इदानीमपि ततोऽधिकतरैव; पितुरप्यभावात् पितृबुद्धेरपि रामे उपसंहारात्-इतीममर्थं परबुद्धेरप्रत्यक्षत्वात् शपथैः प्रत्याययति – कृतेत्यादि । सत्यसन्धत्वादिगुणकः स आर्यः - रामः यम्य-मेऽनुमते मदनुगतिमदनुज्ञापूर्वककृत्यनिमित्ततः गतश्चेत् तस्य मे कदाचनापि शास्त्रानुगा कृता- श्रुतिस्मृत्यनुगता सुचिरसुस्थिरपरिचिता बुद्धिः सर्वार्थहेतुभूता मा भूत्-तिरोभूयात् । इतोऽधिकोऽनर्थो नास्त्येव पुंसः । अतोऽयं परम: शपथः । अतः परं प्रपञ्चः ॥ २१ ॥
[५]प्रेष्यं पापीयसां यातु, सूर्यं च प्रति मेहतु ।
हन्तु पादेन गां सुप्तां यस्यार्थोऽनुमते गतः ॥ २२ ॥
- ↑ स्थितां-ङ, च.
- ↑ अत्र शपथव्याजेन धर्मविशेषाश्च शिक्ष्यन्ते मुनिनेति बोध्यम्-गो.
- ↑ कृत-ङ, च.
- ↑ रामविवासनं यस्य सम्मतं स्यात् स एतादृशानि पापानि प्राप्नुयात् - इति शपथस्य
सामान्यमुखत्वस्वारस्यादुक्तम् । यदि रामविवासनं मम सम्मतं स्यात्, तदा मम एतानि
पापानि भवन्तु - इति प्रकृतपर्यवसानम्-गो. - ↑ प्रेष्यं-ङ.