पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
148
[अयोध्याकाण्ड:
भरतशपथ:


[१]सोऽमात्यमध्ये भरतः जननीमभ्यकुत्सयत् ।
राज्यं न कामये जातु [२]मन्त्रये नापि मातरम् ॥ २ ॥

 अमात्याः सुमन्त्रादयः ज्ञात्वा भरतागमनं प्राप्ताः । जननीमभ्यकुत्सयदिति लोकस्येव स्वस्यापि परमानिष्टताख्यापनाय । अथ ' प्रयोजयिता, मन्ता, कर्ता' इतिस्मृतं त्रिप्रकारमपि कर्तृत्वं प्रकृतपापविषये नास्तीति राजकर्तॄन् प्रत्याययति भरतः - राज्यमित्यादि । मन्त्रय इति । राज्यार्थमिति शेषः ॥ २ ॥

[३]अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः ।
विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽभवम् ॥ ३ ॥

 समीक्षितः - चिन्तितः । न जानामीत्यत्र हेतुमाह - विप्रकृष्ट इत्यादि । अतिदूरस्थ इत्यर्थः ॥ ३ ॥

वनवासं न जानामि रामस्याहं महात्मनः
विवासनं च सौमित्रेः सीतायाश्च यथाऽभवत् ॥ ४ ॥
तथैव क्रोशतस्तस्य भरतस्य [४] महात्मनः ।
कौसल्या शब्दमाज्ञाय सुमित्रां चेदमब्रवीत् ॥ ५ ॥
आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः ।
तमहं द्रष्टुमिच्छामि भरतं [५] दीर्घदर्शिनम् ॥ ६ ॥


  1. एतावता मातृसकाश एव विवादात्, अमात्यादीनामिदानीमेवागतत्वेन तेषां स्वाशयावेदनाय प्रतिजानाति ।
  2. मात्रालोचनां नानुमोदामीति वाऽर्थः ।
  3. मत्सम्मतिमन्तरा निर्णीतत्वात् नाहममिषेक्ष्यामीति चार्थः ।
  4. अहो! भरतस्य भाव: कौसल्यया न ज्ञात:- इति सूचयति कवि: - महात्मन इति ।
  5. दीर्घदर्शिनमित्यनेन रामनिर्गमनं भरतो न संमन्यत इति कौसल्याहृदयं इति सूचितम्- गो. वस्तुतस्तु – 'इदं ते राज्यकामस्य’ (११) इत्यादिपरिशीलने 'भरतः मात्र सह मन्त्रयित्वैव सर्वमेवं कृतवान्' इति कौसल्या मन्यते स्म इति भाति । अतः तदनुगुणमेव ' दीर्घदर्शिनं ’ इति नर्मोक्त्या उपलभते इति स्वरसम् ॥