पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
140
[अयोध्याकाण्ड:
कैकेयीविगर्हणम्


 आगतौ यतः, अतोऽवश्यं – ब्रह्महत्यामित्यादि । नरकं गच्छेति प्राप्तकाले लोट्, नरक एव ते न्यायप्राप्त इत्यर्थः ॥ ४ ॥

यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा ।
[१] सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥ ५ ॥

 सर्वलोकप्रियं, राममिति शेषः । हित्वा - विवास्येति यावत् । ममापि मयमापादितमिति । त्वद्दोषात् मां रामः परित्यक्ष्यतीति भयमित्यर्थः ॥ ५ ॥

त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः ।
[२]अयशो जीवलोके च त्वयाऽहं [३]प्रतिपादितः ॥ ६ ॥

 अयशो जीवलोके चेति । पतिघ्न्याः पापायाः पुत्रो भरतः कश्मलः–इत्याद्यात्मकमयशः ॥ ६ ॥

मातृरूपे ! ममामित्रे ! नृशंसे राज्यकामुके!
न तेऽहमभिभाष्योऽस्मि, दुर्वृत्ते ! पतिघातिनि ! ॥७॥

 राज्यकामुकेति । अमैथुनेच्छातो न ङीप् । न तेऽहमभिभाष्य इति । 'कृत्यानां कर्तरि वा' इति षष्ठी; मत्संभाषणं त्वया न कर्तव्यमित्यर्थः ॥ ७ ॥

कौसल्या च सुमित्रा च याश्चान्या मम मातरः ।
दुःखेन महताऽऽविष्टाः त्वां प्राप्य कुलदूषिणीम् ॥ ८ ॥


  1. सर्वलोकप्रियं रामं हित्वा स्थितस्य ममापि भयमापादितं - त्वत्कृतं पापं ममापि
    भयमजनयत्, न तु राज्यमिति भाव:- गो. ममापीत्यपिशब्दात् सर्वजनस्यापीत्यर्थ:-ती.
  2. मातृमुखेन ज्येष्ठं विवास्य राजानं नाशितवानित्येवंविधं-गो. 'अहमप्यवनिं प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मष: ' (३४) इति वचनानुसारादेवं व्याख्या ।
  3. प्रतिपादित:-प्रापितः ।