पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
126
[ अयोध्याकाण्ड:
कैकेयीदर्शनम्


क्व स पाणिः सुखस्पर्शः तातस्याक्लिष्टकर्मणः ।
येन मां रजसा ध्वस्तं अभीक्ष्णं परिमार्जति ॥ ३१ ॥
यो मे [१]भ्राता पिता बन्धुः यस्य दासोऽस्मि धीमतः ।
तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ॥ ३२ ॥

मामाख्याहीति । आगतमिति शेषः ॥ ३२ ॥

पिता हि भवति [२]ज्येष्ठो [३] धर्ममार्यस्य जानतः ।
तस्य पादौ गृहीष्यामि स हीदानीं गतिर्मम ॥ ३३ ॥
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
[४]आर्ये! किमब्रवीद्राजा पिता मे सत्यविक्रमः[५] ॥ ३४ ॥

आर्ये इति सम्बुद्धिः ॥ ३४ ॥

पश्चिमं साधु सन्देशमिच्छामि श्रोतु[६] मात्मनः ।
इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥ ३५ ॥

पश्चिमं सन्देशमिति । चरमकालीनमिति यावत् ॥ ३५ ॥

[७]रामेति राजा विलपन्, हा सीते! लक्ष्मणेति च ।
स महात्मा परं लोकं गतो [८]गतिमतां वरः ॥ ३६ ॥


  1. त्राता-ङ.
  2. श्रेष्ठ:-ङ.
  3. आर्यस्य धर्मं जानतः, यद्वा, धर्मं जानतः आर्यस्य ।
  4. आर्य:-ङ.
  5. एतदनन्तरं - गुरुरेकः प्रजानां तु पिता मे सत्यविक्रमः- इत्यधिकं - ङ.
  6. आत्मन:- मह्यमिति यावत् ।
  7. एवं पृष्टवन्तं भरतं प्रति, 'त्वां राजा न स्मृतवान्, किं तु राममेव स्मरन् स्वर्गमगात्' इति पितृविषयस्नेहनिवर्तनाभिप्रायेणाह-रामेत्यादिना-गो.
    ’मह्यं राज्ञः सन्देशं श्रोतुमिच्छामि' इति खलु भरत: पप्रच्छ । अतश्च दशरथस्य त्वत्स्मरणमेव कुतः- इत्युपालंभगर्भेयमुक्तिरिति भावः । किञ्च पूर्व 'शीघ्रमाख्याहि रामस्य’ इति भरतोक्त्या - त्वद्दायादः स तु गत एवेति सूचनार्थं चेयमुक्तिः । अत एव 'प्रियशङ्कया' (४१) इति वक्ष्यते ।
  8. मतिमतां-ङ.