पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
116
[अयोध्याकाण्डः
अयोध्याप्रवेश:

नाद्यापि श्रूयते शब्दः मत्तानां मृगपक्षिणाम् ॥ २६ ॥
संरक्तां मधुरां वाणीं कलं व्याहरतां [१]बहु ।
चन्दनागरु[२]संपृक्तः धूपसंमूर्च्छितोऽतुलः ॥ २७ ॥
प्रवाति पवनः श्रीमान् किन्नु नाद्य यथापुरम् !

 सम्मूर्च्छितः-व्याप्तः ॥ २७ ॥

भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः ॥ २८ ॥
किमद्य शब्दो विरतः [३] सदा [४]दीनगतिः पुरा !

 कोणसङ्घट्टितः-सङ्घटित इति यावत् । भेर्यादिवादनदण्डः- कोणः । विरतः-उपरतः । अत एव - सदा दीनगतिः । पुरा-पुरस्तात् अनुभूयत इति शेषः ॥ २८ ॥

अनिष्टानि च [५] पापानि पश्यामि विविधानि च ॥ २९ ॥
निमित्तान्यमनोज्ञानि तेन सीदति मे मनः ।

 अनिष्टानि- अनिष्टसूचकानि । पापानि-अशुभसूचकानि । अमनोज्ञानि-दर्शनमात्रेण दुःखकराणि ॥ २९ ॥

सर्वथा कुशलं, [६]सूत! दुर्लभं मम बन्धुषु ॥ ३० ॥
तथा ह्यसति सम्मोहे हृदयं सदितीव मे ।

असत्यपि सम्मोहे-तत्कारणे ॥ ३० ॥


  1. मुहुः-ड.
  2. संपृक्त:- ङ. च
  3. पुरा अदीनगतिः शब्दः अद्य पुनः किमर्थं विरतः- गो.
  4. ऽदीनगति:-ड.
  5. पापानि-क्रूराणि-गो.
  6. एवं भरते बहु व्याहरत्यपि सूतः कुतः प्रतिवचनं न ददातीत्याशङ्क्य-त्वरया गच्छता भरतेनोपर्युपरि नूतनदृश्यानामपि त्वरया कथयितव्यत्वात् मध्ये सूतप्रतिवचनस्य नावसरः- इति केचित् समादधते। परन्तु राजगृहात् मातुलीयरथेनैव भरतागमनात्, सारथिरपि मातुलदेशीयः, अत एव अपरिचितविषयः स्यादित्यपि स्मरणीयमत्र। ३३ श्लोके 'सूतमश्वपतेः' इति स्पष्टमेवोच्यते । दूतास्तु भरताह्वानायागताः अश्वेनैवागच्छन्; न तु रथेन ॥