पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७० सर्गः]
103
तादृशं भरतं दूता: वीक्ष्यैवं वाक्यमब्रुवन्


 दुस्स्वप्नगतिं निशाम्येति । स्वदुस्स्वप्नानुभवमनुभूयेति यावत् । आकर (२१) मानः सर्गः ॥ २१ ॥

 इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे एकोनसप्ततितमः सर्गः



सप्ततितमः सर्गः
[भरतप्रस्थानम् ]

भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः ।
प्रविश्यासह्य[१]परिखं रम्यं राजगृहं पुरम् ॥ १ ॥

 अथ सभायामेव भरतस्य दूतदर्शनसन्देशश्रवणादिपूर्वं स्वपुरप्रस्थानम् । भरत इत्यादि । [२] असह्या-दुस्सहा परिखा-तत्प्रदेशवर्तिप्राकारयन्त्रसन्नाहः यस्याः सा तथोक्ता ॥ १ ॥

समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः ।
राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥ २ ॥

 राज्ञा- केकयेन राजपुत्रेण - युधाजिता चार्चिताः स्वीयामात्यदत्तपदार्थोपस्थापनपुरस्सरतया समागम्य-सङ्गमपूर्वकयथोचितव्यवहारं कृत्वा राज्ञः-स्वीयस्य भरतस्य पादौ गृहीत्वा-नमस्कृत्य ॥ २ ॥

पुरोहितस्त्वां कुशलं ग्राह सर्वे च मन्त्रिणः ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ३ ॥

 [३] आत्ययिकं-कालात्ययं प्राप्तं आत्ययिकं कृत्यं त्वयैव कर्तव्यमस्तीति शेषः ॥ ३ ॥


  1. परिघं-ङ.
  2. असह्यपरिघं-परैरप्रधृष्यपरिघं-गो.
  3. आत्ययिकं-दुष्करं-अत्ययः कृच्छ्रं - गो.